Book Title: Collection Of Jaina Philosophical Tracts
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 166
________________ १४० श्रीपद्मसुन्द्रविरचितः । पवत्' इति, रथ्यापुरुषे साध्यस्य प्रत्यक्षेणानिश्चयाद् वचनस्य च तत्र दृष्टस्य तदभावेऽपीच्छया सम्भवादिति संदिग्धसाध्यम् । 'मरणधर्माऽयं रागात्' इति संदिग्धसाधनम् । 'असर्वज्ञोऽयं रागात्' इति संदिग्धोभयम् , रागादिवदसर्वज्ञस्यापि तत्र निश्चेतुमशक्यत्वात् । 'रागादिमानयं वक्तृत्वात् तत्र रागादेरसिद्धौ तदन्वयस्यासिद्धेरित्यनन्वयम् । 'अनित्यः शब्दः कृतकत्वात् घटवत्' इति, ततोऽत्र 'यत् यत् कृतकं तत् तदनित्यम्' इत्यन्वयप्रदर्शनस्यात्राभावादप्रदर्शितान्वयम् । 'यदनित्यं तत् कृतकम्' इति विपरीतान्वयम् । तदित्थं नवान्वयदृष्टान्ताभासा तथा व्यतिरेकेणापि । तद्यथा व्यतिरेके दृष्टान्ताः - असिद्धसाध्यसाधनोभयव्यतिरेकादयो यथा 'अपौरुषेयः शब्दोऽमूर्तत्वात् , यन्नापौरुषेयं तन्नामूर्तं परमाण्विन्द्रियसुखाकाशवत्' इति । परमाणुभ्यो ह्यमूर्तत्वव्यावृत्तावप्यपौरुषेयत्वं न व्यावृत्तमपौरुषेयत्वात् तेषामिति साध्याच्यावृत्तम् । इन्द्रियसुखे त्वपौरुषेयत्वव्यावृत्तावपि अमूर्तत्वं न व्यावृत्तममूर्तत्वात् तस्येति साधनाव्यावृत्तम् । आकाशे तूभयं न व्यावृत्तमपौरुषेयत्वादमूर्तत्वाच्चास्येति द्याव्यावृत्तम् । 'असर्वज्ञः कपिलोऽक्षणिकैकान्तवादित्वात् , यः यः सर्वज्ञः स स क्षणिकैकान्तवादी यथा सुगत" इति सदिग्धसाध्यच्यतिरेकम् । 'अनित्यः शब्दः सत्त्वात्, यन्न तथा न तत् सद् यथा गगनम्' इति गगनसत्त्वसाधनव्यतिरेकम्। 'संसारी हरिहरादिरविद्यादिमा(म)त्त्वात्, यस्तु नैवं नासौं तथा यथा वुद्धः' इति संदिग्धोभयन्यतिरेकं बुद्धात् संसारित्वादिव्यावृत्तेः प्रमाजानवधारणात् । 'नित्य. शब्दोऽमूर्तत्वात्, यन्न नित्यं न तदमूर्त यथा घटः' इत्यव्यतिरेकम् । घटे सतोऽपि साध्यव्यतिरेकस्य हेतुनिवर्तनं प्रत्यप्रयोजकत्वादन्यथा कर्मण्यपि तत्य कर्मत्वोपपत्तेः 'अनित्य शब्दः सत्त्वात्, वैधयेणाकाशवत्' इत्यप्रदर्शित व्यतिरेकम्। तत्रैव 'यन्न सन्न तदनित्यमपि यथा नभ" इति विपरीतव्यतिरेकम् । त इमे नव, पूर्वेऽपि अष्टादशदृष्टान्ताभासाः प्रतिपत्तव्याः । असन्यगनुभूतेऽर्थे तदेवेति ज्ञानं स्मरणाभासं यथा जिनदत्ते दृष्टे स देवदत्तो ययेति । तथा तुल्येऽर्थे 'स एवायम्' इति यमलजातवदिति ज्ञानं प्रत्यभिज्ञानाभासम् । अविद्यमानत्र्याप्तौ तदवमासस्ताभासो यथा 'स श्यामस्तत्पुत्रत्वादितरतत्पुत्रवत' इति । भव्युत्पन्नव्युत्पत्तये पञ्चावयवोऽपि प्रयोगः, प्रयोगाभासस्तत्र कियदद्गहीनतापि यथा 'वािमानय देश., धूमवत्त्वात्, यदित्थं तदित्थम् , यथा महानस.' इति 'धूमवांश्चायम्' इति यो व्युत्पन्नग्रजोऽनुमानप्रयोगे पञ्चावयवे गृहीतसङ्केतः स उपनयनिगमनरहितस्यानिगमनत्य वा प्रयोगस्य तदाभासता मन्यते । अथ रागद्वेषमोहाकान्तपुरुषवचनाम्जातमागमाभासम् । रागाक्रान्तो हि पुरुषो विनोदार्थ वस्तु किञ्चिदलभन् माण २. रागायभाये।

Loading...

Page Navigation
1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193