Book Title: Collection Of Jaina Philosophical Tracts
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad
________________
१३८
श्रीपमसुन्दरधिरचितः वसायित्वेनाप्रवृत्तेः। संदिग्धासिद्धो यथा 'सानुमानयं वद्धिमान् धूमादिति', तत्र धूमो वाष्पादिभूतसङ्घातो वेति संशय्यमानो न ह्यसौ वहिप्रतिपत्ती धूमतयोपदिष्टो गमकः स्यात् , निश्चितस्यैव तत्वोपपत्तेः, सदिग्धस्य चानिश्चितत्वात् मुग्धबुझेरसन्निश्चयादिति । तथा चाऽऽश्रयवत् स्वरूपस्यासत्त्वे माश्रयासिद्धस्य स्वरूपासिद्ध एवान्तर्भावात् सत्त्वे चान्यथानुपपत्तौ हेतुत्वस्यान्यथाव्यभिचरात् । भागासिन्द्धस्तु पक्षाव्यापकगमकत्वेन निर्धारणाच्छब्दस्य प्रयत्नान्तरीयकत्वेऽपि जलधराम्भोधियोपादावभावात् । तथा 'चेतनास्तरवः स्वापात्', तस्य द्विदलेप्विवैकदलेष्वपि चेतनत्वस्याव्यभिचारात् तव्यातहेतूपस्थापनेन तस्यापि व्यवस्थापनान्न दोष इति । विपर्यस्तासिद्धस्त्वज्ञातासिद्ध एवान्तर्भूतो धूमस्य विपर्यासेन प्रतीयमानस्य स्वरूपापरिज्ञानात् । तत्रासत्सत्तानिश्चयोऽसिद्ध इति लब्धवर्णवाचस्तल्लक्षणेनैव विशेष्यविशेषणासिद्धसंदिग्धव्यर्थविशेष्यविशेघणन्यधिकरणासिद्धादयोऽपि प्रदर्शनमात्रेण प्रतिपत्तव्या. 'धवलः प्रासादः काकस्य कार्यात्' इत्यादिवदिति ।
तथा विपक्षेऽप्यविरुद्धवृत्तिरनैकान्तिकः सव्यभिचारः । स द्विधा-निश्चितव्यभिचारसंभाव्यव्यभिचारभेदात् । तत्राद्ये निश्चितो व्यभिचारः पक्षैकदेशे यथा 'पक्वान्येतानि फलानि, एकशाखाप्रभवत्वात् उपभुक्तफलवत्' इति, न त्वस्ति यत्रानुमाने तत्रैवे तन्निश्चयः पक्षीकृतेष्विव बहुलमामेष्वपि प्रेकृतहेतोर्भावात् । क्वचिदपरत्र यथा 'सः श्यामस्तत्पुत्रत्वादितरतत्पुत्रवत्' इत्यपरत्रैव तन्निश्चयः श्याम इवाश्यामेऽपि तत्पुत्रत्वस्य दर्शनात्। द्वितीयो यथा 'विवादापन्नः पुरुपः किञ्चिदज्ञो रागादिमान् वा, वक्तृत्वादेः रथ्यापुरुपवत्' इति । सम्भावना व्यभिचारस्यात्र सर्वज्ञादावपि विरोधाभावेन वक्तृत्वादेः सम्भवाविरोधात्, विरोधो वा ज्ञानप्रकर्षातात(फ्तार)तम्यस्यैव वक्तृत्वस्यापकर्पतारतम्योपलम्भात्, न चैवं 'किञ्चिज्ञो न सर्वज्ञः' इति पर्युदासवृत्त्याऽभिधीयते, न च ज्ञानतारतम्याद् वचनस्यापि तथाभावो दृश्यते । प्रसज्यप्रतिषेधवृत्तित्वे शवशरीरादौ तदुपलम्भप्रसङ्गः, ततः सत्यपि वक्तृत्वे किञ्चिज्ञेऽप्यतिगयतारतम्यस्थैव प्रतिपत्तेः । ततः सम्भवत्येवातिशयपर्यन्तगतज्ञानस्य सकलवेदिनो वक्तृत्वम् , सुस्थित तर्हि सम्भाव्यव्यभिचारत्वाद् वृक्तृत्वादेरनैकान्तिकत्वमिति । तदेतल्लक्षणलक्षितत्वाविशेषात् पराभ्युपगतपक्षत्रयव्यापकाद्यनैकान्तिकः प्रपञ्चोऽप्यनर्थान्तरमेव । , साध्यार्थाभावनियमनिश्चितो विरुद्धो हेत्वाभासः । स चानेकधा - धर्मतद्विशेपाभ्यां घर्मितद्विशेषाभ्यां विपर्ययस्यैव साधनात् । तत्र धर्मविशेषविपर्ययसाधनो यथा
१. घूमवाष्पादिविवेकानिश्चये कविदाह । २ एकशाखायामेव । ३. एकशाखाप्रभवत्वाद् इत्यस्य । ४. मीमासकाना मते सर्वज्ञो नास्ति ।
Page Navigation
1 ... 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193