Book Title: Collection Of Jaina Philosophical Tracts
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 158
________________ १३२ श्रीपद्मसुन्दरविरचितः गमकत्वात् 'सकलं जीवच्छरीरं सात्मकं प्राणादिमत्त्वाद् व्यतिरेके भस्मवत्' इति । विपक्षासत्त्वमगमकम् यथा 'सर्वमनेकान्तात्मकं सत्वात्' इत्यस्य स्वसाध्यप्रत्यायनसमये निरूपयिष्यमाणत्वादिति । न च त्रैरूप्यसाकल्यं गमकम् , 'पक्वान्येतानि फलानि एकशाखाप्रभवत्वादुपभुक्तफलवत्' इत्यादौ । पाञ्चरूप्यस्याप्यगमकत्वम्, तथा 'मूखोऽयं देवदत्तस्तत्पुत्रत्वादितर त]त् पुत्रवत्' इत्यादावप्येकशाखाप्रभवत्वत्या यबाधितविषयत्वासम्भवादामताग्राहिप्रत्यक्षेणैव तद्विपयत्य बाधितत्वात् तत्पुत्रत्वादेश्चासत्प्रतिपक्षत्वाभावात् तत्प्रतिपक्षस्य शास्त्रनिष्णात(ता)दिलिङ्गस्य सम्भवादिति । ततः साध्याविनाभावनियमलक्षणस्यैव तत्त्वोपपत्तेः पक्षधर्मत्वाद्यभावेऽपि, 'सन्ति प्रमाणानीष्टसाधनात्' इत्यादौ तस्यैव भावादित्यग्रे निरूपणात् । न च तथागतमतकल्पितं स्वभावकार्यानुपलब्धिलक्षण लिङ्गं त्रिविधम् । अविनाभावनियतं लिङ्ग घटामञ्चति । रसादे रूपादावतत्स्वभावादेरपि गमकत्वात् । न हि रसादेः रूपादिस्वभावत्वम् , तस्य भेदेन प्रतिपत्ते , नापि तत्कार्यत्वं समसमयत्वात् , अथ पारम्पर्येण चेत् तहींन्धनस्यापि पावकजन्मनो धूमकार्यत्वेन, तल्लिङ्गत्वोपपत्ते. । अथ रसादिकारणाद् रूपादेरवगम इति सति कारणस्य लिङ्गत्वानभ्युपगते स्वभावलिङ्गत्वोपगमे धूमादेरपि तत एव तल्लिङ्गत्वप्रसङ्गन कार्यलिङ्गस्याभावानुषगान्न रसादे. कार्यस्वभावयोरन्तर्भावः, न चानुपलब्धौ विधिसाधनत्वात् इति न लिङ्गस्य त्रैविध्यम् । नाप्यन्वयादित्रयं लिङ्गम् 'सन्ति प्रमाणानीष्टसाधनात्' इत्यस्यागमकत्वप्रसक्तेः, नह्यसावन्वयी व्यतिरेको तदुभयी वा साधादेरभावादिति, न चासावगमकोऽप्यने निरूपणात् । नापि सयोगिसमवाय्येकार्थसमवायितद्विरोधिचतुष्टयं तल्लिङ्गम् । तत्र कृत्तिकोदयस्य शकटोदयादौ, धूमस्य पावकादौ डव संयोगाभावान्न संयोगि, नापि गोरिव विषाणादिः समवायि, नापि रूपादिनेव रसादिरेकार्थसमवायि, नापि तद्विधिलिङ्गत्वात् तद्विरोधि । तन्न त्रैविध्यादिकल्पनं लिङ्गम् , अतन्नियतस्यापि साध्याविनाभावनियमविषयस्यानेकस्ये(स्यै )व भावात् । ___ तदनुमानमपि द्विधा--स्वार्थ परार्थं चेति । तद्विषयेऽपि स्वार्थप्रकाशनहेतुक्षयोपशमयोग्यताविशेषः प्रतिपत्तव्यः । ततो योग्यताविशेषात् तर्कनिर्णीताविनाभावेन साध्यविज्ञान स्वार्थम् । तत्र साध्यमिष्टमबाधितमसिद्धमिति । तत्र वाद्यभिप्रायेच्छया विषयीकृतमिष्ट यथा 'शब्द कथञ्चिद् अनित्यो जनस्य न सर्वथा' । अबाधितं तु प्रत्यक्षानुमानादिभि , 'अश्रावणात्' इति प्रत्यक्षबाधित न तथा । असिद्धपद तु सदिग्धविपर्यस्ताव्युत्पन्नानां साध्यत्वायेति प्रतिवाद्यपेक्षयासिद्धं प्रतिपाद्यत्वात् , तस्याविज्ञातार्थ १ अस्त्यत्र निवुके रमः सादिति । २ पावकस्य जन्म यस्मात् स ।

Loading...

Page Navigation
1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193