Book Title: Collection Of Jaina Philosophical Tracts
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 159
________________ प्रमाणसुन्दः । १३३ स्वरूपत्वाद् , वादिनस्तु [सिद्ध] प्रतिपादकत्वात् । न चाविज्ञातार्थस्वरूपः प्रतिपादको नामातिप्रसङ्गादिति । क्वचिद् व्याप्तिसमये साध्य धर्मो नित्यत्वादिः, प्रयोगसमये तु साध्यधर्मेण विशिष्टो धर्मी पक्ष. । तत्प्रसिद्धिर्विकल्पप्रमाणाभ्यां द्वयेनैकेन वा, तत्र व्याप्ती तु साध्य धर्म एव न पुनधर्मी ततोऽन्यथां तदघटनादँनेन हेतोरन्वयासि । न हि यत्र यत्र कृतकत्वं न[त्र तत्र शब्दानित्यत्वाद्यन्वयोऽस्ति । तत्र साव्यसाधनयोाप्यव्यापकयोर्नियताविनाभावो व्याप्तिस्ततोऽनुमानम् । तत्प्रभेद चेच्छताऽविनाभाव एव व्याप्यस्य प्रधानलक्षण प्रतिपत्तव्यम् । सोऽपि सहभावनियमः क्रमभावनियमश्चाविनाभाव इति । तत्र सहचारिरूपरसादिलक्षणयोाप्यव्यापकयो शिंशपात्व-वृक्षत्वादिधर्मयोः सहभावः, पूर्वोत्तरचारिणो. कृत्तिकाशकटोदयादिधर्मयोः, कार्यकारणयोरग्निधूमादिस्वरूपयोर्वा क्रममाव इति । तर्कतस्तन्निर्णयः । साध्यसाधने तद्विमर्शिवचनोद्भूत परार्थानुमानम् । तद्वचनमपि तदर्थहेतुत्वादुपचारत. प्रमाण मुख्यतस्तु ज्ञानमेवेति । तत्र हेतुप्रयोगो द्विविधः - तथोपपत्तिरन्यथानुपपत्तिश्चेति । यदिदं साधनत्वाभिप्रेतं वस्तु अस्मिन् साध्यत्वाभिप्रेते सत्येवाग्नावेव धूमो भवतीति तथोपत्तिः, साध्यमन्तरेण न भवत्येव [इति] अन्यथानुपपत्ति । साकल्यव्याप्तित्वेनास्याप्रामाण्याभावः । तत्रापि हेतोरन्ताप्त्या साध्यसिद्धौ बहिाप्तिप्रयोगो वन्ध्य एव । पक्षीकृत एव विपये साधनस्य साध्येन सह व्याप्ति. 'अनेकान्तात्मक सर्वं सत्त्वात्' इतिवद् अन्तर्व्याप्तिरन्यत्र बहिर्व्याप्तिरिति । तथैकहेतो पक्षधर्म त्वाद्यनेकधर्मात्मकत्वेऽनेकान्तसमवतारो दुर्निवार एव । ततोऽनेकान्तात्मकस्य साध्याविनामावनियमलक्षणस्य व्याप्यत्व पक्षधर्मत्वादेर्व्यापकत्वम् । तत. पदार्थान्तरानुवृत्तव्यावृत्तरूपमात्मानं बिभ्रदेकमेवार्थस्वरूपं प्रतिपत्तुर्भेदाभेदप्रत्ययप्रसूतिनिवन्वन हेतुतयोपादेयं साध्यसिद्धिनिबन्धनमभ्युपेयम् । तत्र पक्षः प्रतिज्ञावचनमागम एव, हेतुरनुमानम् , प्रतिज्ञातार्थस्य तेनानुमीयमानत्वाद द्वयमेवानुमानम् । मन्दमतिप्रतिपत्त्यर्थं प्रतिव्यक्तिरूपो दृष्टान्तो द्विधा-साध १. पक्ष साध्य । २ धर्मिण एव साध्यत्वे । ३ व्याप्तेरघटनात् । ४ व्यप्तौ एक व्यापकम् एक व्याप्य भवति । तत्रोभयोमध्ये यदधिवृत्ति तव्यापकम् । यच्चाल्पवृत्ति व्यापकेन सहाविनाभूत तत् व्याप्यम् । यथा धूमानुमाने वह्रिा पक्म् , धूमो व्याप्यम् , यतो यत्र यत्र वह्निस्तत्र तत्र धूम इति नास्ति अङ्गारावस्थाया पहिसद्भावे, वहि सर्वत्राप्यस्त्येव तेन वहिरधिवृत्तित्वाद् व्यापक धूमथाल्यवृत्तित्वाद् व्याप्यम् । उक्त च व्यापक त्दतनिष्ठ व्याप्यं तन्निष्ठमेव च । व्याप्य गमकमादिष्ट व्यापक गम्यमिष्यते ॥ ५ साधर्म्यवधर्म्य । ६. हिनोति गमयति जिज्ञासितधर्मविशिष्टान् अर्थान् इति हेतु । -

Loading...

Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193