________________
प्रमाणसुन्दः ।
१३३ स्वरूपत्वाद् , वादिनस्तु [सिद्ध] प्रतिपादकत्वात् । न चाविज्ञातार्थस्वरूपः प्रतिपादको नामातिप्रसङ्गादिति । क्वचिद् व्याप्तिसमये साध्य धर्मो नित्यत्वादिः, प्रयोगसमये तु साध्यधर्मेण विशिष्टो धर्मी पक्ष. । तत्प्रसिद्धिर्विकल्पप्रमाणाभ्यां द्वयेनैकेन वा, तत्र व्याप्ती तु साध्य धर्म एव न पुनधर्मी ततोऽन्यथां तदघटनादँनेन हेतोरन्वयासि । न हि यत्र यत्र कृतकत्वं न[त्र तत्र शब्दानित्यत्वाद्यन्वयोऽस्ति । तत्र साव्यसाधनयोाप्यव्यापकयोर्नियताविनाभावो व्याप्तिस्ततोऽनुमानम् । तत्प्रभेद चेच्छताऽविनाभाव एव व्याप्यस्य प्रधानलक्षण प्रतिपत्तव्यम् । सोऽपि सहभावनियमः क्रमभावनियमश्चाविनाभाव इति । तत्र सहचारिरूपरसादिलक्षणयोाप्यव्यापकयो शिंशपात्व-वृक्षत्वादिधर्मयोः सहभावः, पूर्वोत्तरचारिणो. कृत्तिकाशकटोदयादिधर्मयोः, कार्यकारणयोरग्निधूमादिस्वरूपयोर्वा क्रममाव इति । तर्कतस्तन्निर्णयः ।
साध्यसाधने तद्विमर्शिवचनोद्भूत परार्थानुमानम् । तद्वचनमपि तदर्थहेतुत्वादुपचारत. प्रमाण मुख्यतस्तु ज्ञानमेवेति । तत्र हेतुप्रयोगो द्विविधः - तथोपपत्तिरन्यथानुपपत्तिश्चेति । यदिदं साधनत्वाभिप्रेतं वस्तु अस्मिन् साध्यत्वाभिप्रेते सत्येवाग्नावेव धूमो भवतीति तथोपत्तिः, साध्यमन्तरेण न भवत्येव [इति] अन्यथानुपपत्ति । साकल्यव्याप्तित्वेनास्याप्रामाण्याभावः । तत्रापि हेतोरन्ताप्त्या साध्यसिद्धौ बहिाप्तिप्रयोगो वन्ध्य एव । पक्षीकृत एव विपये साधनस्य साध्येन सह व्याप्ति. 'अनेकान्तात्मक सर्वं सत्त्वात्' इतिवद् अन्तर्व्याप्तिरन्यत्र बहिर्व्याप्तिरिति । तथैकहेतो पक्षधर्म त्वाद्यनेकधर्मात्मकत्वेऽनेकान्तसमवतारो दुर्निवार एव । ततोऽनेकान्तात्मकस्य साध्याविनामावनियमलक्षणस्य व्याप्यत्व पक्षधर्मत्वादेर्व्यापकत्वम् । तत. पदार्थान्तरानुवृत्तव्यावृत्तरूपमात्मानं बिभ्रदेकमेवार्थस्वरूपं प्रतिपत्तुर्भेदाभेदप्रत्ययप्रसूतिनिवन्वन हेतुतयोपादेयं साध्यसिद्धिनिबन्धनमभ्युपेयम् ।
तत्र पक्षः प्रतिज्ञावचनमागम एव, हेतुरनुमानम् , प्रतिज्ञातार्थस्य तेनानुमीयमानत्वाद द्वयमेवानुमानम् । मन्दमतिप्रतिपत्त्यर्थं प्रतिव्यक्तिरूपो दृष्टान्तो द्विधा-साध
१. पक्ष साध्य । २ धर्मिण एव साध्यत्वे । ३ व्याप्तेरघटनात् । ४ व्यप्तौ एक व्यापकम् एक व्याप्य भवति । तत्रोभयोमध्ये यदधिवृत्ति तव्यापकम् । यच्चाल्पवृत्ति व्यापकेन सहाविनाभूत तत् व्याप्यम् । यथा धूमानुमाने वह्रिा पक्म् , धूमो व्याप्यम् , यतो यत्र यत्र वह्निस्तत्र तत्र धूम इति नास्ति अङ्गारावस्थाया पहिसद्भावे, वहि सर्वत्राप्यस्त्येव तेन वहिरधिवृत्तित्वाद् व्यापक धूमथाल्यवृत्तित्वाद् व्याप्यम् । उक्त च
व्यापक त्दतनिष्ठ व्याप्यं तन्निष्ठमेव च ।
व्याप्य गमकमादिष्ट व्यापक गम्यमिष्यते ॥ ५ साधर्म्यवधर्म्य । ६. हिनोति गमयति जिज्ञासितधर्मविशिष्टान् अर्थान् इति हेतु ।
-