________________
१३२
श्रीपद्मसुन्दरविरचितः गमकत्वात् 'सकलं जीवच्छरीरं सात्मकं प्राणादिमत्त्वाद् व्यतिरेके भस्मवत्' इति । विपक्षासत्त्वमगमकम् यथा 'सर्वमनेकान्तात्मकं सत्वात्' इत्यस्य स्वसाध्यप्रत्यायनसमये निरूपयिष्यमाणत्वादिति । न च त्रैरूप्यसाकल्यं गमकम् , 'पक्वान्येतानि फलानि एकशाखाप्रभवत्वादुपभुक्तफलवत्' इत्यादौ । पाञ्चरूप्यस्याप्यगमकत्वम्, तथा 'मूखोऽयं देवदत्तस्तत्पुत्रत्वादितर त]त् पुत्रवत्' इत्यादावप्येकशाखाप्रभवत्वत्या यबाधितविषयत्वासम्भवादामताग्राहिप्रत्यक्षेणैव तद्विपयत्य बाधितत्वात् तत्पुत्रत्वादेश्चासत्प्रतिपक्षत्वाभावात् तत्प्रतिपक्षस्य शास्त्रनिष्णात(ता)दिलिङ्गस्य सम्भवादिति । ततः साध्याविनाभावनियमलक्षणस्यैव तत्त्वोपपत्तेः पक्षधर्मत्वाद्यभावेऽपि, 'सन्ति प्रमाणानीष्टसाधनात्' इत्यादौ तस्यैव भावादित्यग्रे निरूपणात् ।
न च तथागतमतकल्पितं स्वभावकार्यानुपलब्धिलक्षण लिङ्गं त्रिविधम् । अविनाभावनियतं लिङ्ग घटामञ्चति । रसादे रूपादावतत्स्वभावादेरपि गमकत्वात् । न हि रसादेः रूपादिस्वभावत्वम् , तस्य भेदेन प्रतिपत्ते , नापि तत्कार्यत्वं समसमयत्वात् , अथ पारम्पर्येण चेत् तहींन्धनस्यापि पावकजन्मनो धूमकार्यत्वेन, तल्लिङ्गत्वोपपत्ते. । अथ रसादिकारणाद् रूपादेरवगम इति सति कारणस्य लिङ्गत्वानभ्युपगते स्वभावलिङ्गत्वोपगमे धूमादेरपि तत एव तल्लिङ्गत्वप्रसङ्गन कार्यलिङ्गस्याभावानुषगान्न रसादे. कार्यस्वभावयोरन्तर्भावः, न चानुपलब्धौ विधिसाधनत्वात् इति न लिङ्गस्य त्रैविध्यम् । नाप्यन्वयादित्रयं लिङ्गम् 'सन्ति प्रमाणानीष्टसाधनात्' इत्यस्यागमकत्वप्रसक्तेः, नह्यसावन्वयी व्यतिरेको तदुभयी वा साधादेरभावादिति, न चासावगमकोऽप्यने निरूपणात् । नापि सयोगिसमवाय्येकार्थसमवायितद्विरोधिचतुष्टयं तल्लिङ्गम् । तत्र कृत्तिकोदयस्य शकटोदयादौ, धूमस्य पावकादौ डव संयोगाभावान्न संयोगि, नापि गोरिव विषाणादिः समवायि, नापि रूपादिनेव रसादिरेकार्थसमवायि, नापि तद्विधिलिङ्गत्वात् तद्विरोधि । तन्न त्रैविध्यादिकल्पनं लिङ्गम् , अतन्नियतस्यापि साध्याविनाभावनियमविषयस्यानेकस्ये(स्यै )व भावात् ।
___ तदनुमानमपि द्विधा--स्वार्थ परार्थं चेति । तद्विषयेऽपि स्वार्थप्रकाशनहेतुक्षयोपशमयोग्यताविशेषः प्रतिपत्तव्यः । ततो योग्यताविशेषात् तर्कनिर्णीताविनाभावेन साध्यविज्ञान स्वार्थम् । तत्र साध्यमिष्टमबाधितमसिद्धमिति । तत्र वाद्यभिप्रायेच्छया विषयीकृतमिष्ट यथा 'शब्द कथञ्चिद् अनित्यो जनस्य न सर्वथा' । अबाधितं तु प्रत्यक्षानुमानादिभि , 'अश्रावणात्' इति प्रत्यक्षबाधित न तथा । असिद्धपद तु सदिग्धविपर्यस्ताव्युत्पन्नानां साध्यत्वायेति प्रतिवाद्यपेक्षयासिद्धं प्रतिपाद्यत्वात् , तस्याविज्ञातार्थ
१ अस्त्यत्र निवुके रमः सादिति । २ पावकस्य जन्म यस्मात् स ।