________________
प्रमाणसुन्दरः ।
१२९ धारणा मेदाच्चतुर्विधम् । तत्र विषयविपयिसन्निपातानन्तरभाविसत्तादर्शनपुरस्सरो मनुष्यत्वाधवान्तरसामान्याध्यवसायिप्रत्यय' समयमात्रनियतोऽवग्रहः । तदवगृहीतविशेषस्य यज्ञदत्वेन भाव्यमिति भवितव्यतामुल्लीखन्ती प्रतोतिरीहा । ईहितविशेषस्य यज्ञदत्त एवायमित्यवधारणात्मकोऽध्यवसायोऽवायः । निीतस्यैव कालान्तरस्मरणयोग्यतया ग्रहणं धारणा । भवितव्यताविशेषकाक्षाप्रतीतावोहायाः सशयाद् भेदः । यथास्वकालानतिक्रमेण यथाक्रमोत्पादाद् मतिविशेषभेदादेषां कथञ्चित् स्वरूपभेदः । तदेपामवग्रहादिमतिविशेष वि(पवि)कल्पानां पूर्वपूर्वस्य प्रमाणत्वमुत्तरोत्तरस्य च तत्फलं(फलत्वं) प्रतिपत्तव्यम् । तत: सूक्तम् ---"प्रमाणस्य फलं साक्षात् प्रसिद्धिः, स्वार्थविनिश्चयश्च पारम्पर्येण निर्वाणाद्यधिगमः" इति । सांव्यवहारिक प्रत्यक्षं व्याख्यातम् ।
मुख्यं तु प्रत्यक्षमतीन्द्रियम् । तच्च यथास्त्रसामग्रीविशेषविश्लेषिततत्तदावरणमतीन्द्रियं मुख्यं प्रत्यक्षम् । तदपि द्विविधम् — विकलं सकलं च । तत्रायं द्विविधम् अवधिर्मनःपर्यवेश्च । तत्रावधिज्ञानावरणवीर्यान्तरायक्षयोपशमविशेषाविर्भूत(तं) रूपिद्रव्याधिकरणभावविषयं भवगुणप्रत्ययविशेष(पं) विशदमवधिज्ञानम्। चरणगुणप्रादुर्भूततदावरणवीर्यान्तरायक्षयोपशमविशेप(घ) विशदं मनोद्रव्यपर्यायविषयं मनःपर्यवज्ञानम् । सकलं तु प्रत्यक्ष प्रक्षीणाशेपानाद्यविद्याकन्दायमानघातिमलकलकोज्जम्भमाणनिरति
शयवैशद्यतादात्विकप्रतपनाक्रान्तसकलभूतभविष्यवस्तुवास्तवयाथायथ्यपरिणमनविषया___ व्यवधानं केवलज्ञानम्, व्याख्यातं चेद सकलं मुख्यमतीन्द्रियप्रत्यक्षम् ।
इति प्रमाणसुन्दरप्रकरणे प्रत्यक्षखण्डः द्वितीयः ॥
१. वस्तु । २. इन्द्रियसयोग. । ३ वियोजित। ४ अवधानमवधिरिन्द्रियाद्यनपेक्षमात्मनः साक्षादर्थग्रहणम् । अत एवेद प्रत्यक्षज्ञानम् । यद्वाऽधोऽधो विस्तृत वस्तु धीयते परिच्छिद्यतेऽनेनेति अवधि । ५. परि सर्वतो भावेऽवनं वेदन परिभव. पर्यव , मनसि पर्यवो मन पर्यव. सर्वतस्तपरिच्छेद इत्यर्थ । यद्वाऽऽत्मभिर्वस्तुचिन्तने व्यापारितानि मनासि पर्येति अवगच्छतीति मन . पर्याया(यव)म् । ६ केवलमेक मत्यादिज्ञानरहितत्वात् । आह-यदि मत्यादीनि ज्ञानानि स्वस्वावरणक्षयोपशमभावेऽपि प्रादु षन्ति ततो नि शेषत स्वावरणक्षये सुतरा भवेयु चारित्रपरिणामवत्, तत्कथ तेषा तदानीमभाव ? उच्यते-यथा भानोर्घनान्तरितस्यापान्तरालावस्थितकटकुट्यावरणविवरप्रविष्टप्रकाशो घटपटादीन् प्रकाशयति तथा केवलावरणावृतस्य केवलस्यापान्तरालमतिज्ञानावरणादिक्षयोपशमरूपविवरनिर्गत प्रकाशो जीवादोन प्रकाशयति । स च तथा प्रकाशयन् मतिज्ञानमित्यादि