________________
१२८
श्रीपद्मसुन्दरविरचितः वोधकत्वात् । सवेदनवहिर्भावी नीलादिरेवार्थो नीलाद्यर्थस्तु कदाचिदप्रकाशोऽपि परापेक्षबोध्यत्वेन । ततस्तस्यार्थत्वम् । तहि सूक्तम् -- प्रमेयाव्यभिचारित्वं प्रमाणत्वं संवेदनस्यैव स्वपरप्रकाशतया प्रतपमानस्येव तद्विषयप्रकाश्यार्थस्य प्रत्यक्षीकरणात् । ततोऽत्र प्रमातृ-प्रमाण-प्रमेय-प्रमिति-कर्तृ-करण-क्रिया-फलादीनां कथञ्चिद् भेदाभ्युपगमात् कार्यकारणभावाविरोधोऽप्यनुमन्तव्य । ततोऽर्थधर्ममाहात्म्यादात्मा स्वतन्त्रस्वरूप प्रमाता, करणसाधनं प्रमाणम् , तद्धर्माधारत्वं प्रमेयम्, सम्यक्त्वपरपरिच्छित्तिः प्रमितिः, साधकतमस्वभावं कर्तृभावसाधनं करणम्, स्वार्थनिर्णीतिस्वभावा क्रिया, तन्निश्चय. फलमित्यादि कथञ्चिद् धर्मभेदेऽप्यभेद. प्रतिपत्तव्य.। तत्रोदाहरणम्यथा करतलामलकममात्मा आत्मानमात्मना वेमीत्यादिवदित्येवंसाध्याविनाभावित्वनिर्णीतो हेतुरसाधारणधर्मो भावस्य लक्षणमव्यभिचारादग्नेरौप्ण्यवत् ।
इति श्रीप्रमाणसुन्दरप्रकरणे लक्षणखण्डः प्रथमः ।
तच प्रमाणं द्विविधम्-प्रत्यक्षंच परोक्ष च । तत्र यत् स्पष्टावभासं तत् प्रत्यक्षम् । यदन्त कार्मणमलविश्लेषविशेषनिवन्धनो विशुद्धिविशेष एव स्पष्टत्वम् । तथोक्तम् ---
इदमित्यादि यज्ञानमभ्यासात् पुरत. स्थिते ।
साक्षात्करणनस्तत्र प्रत्यक्ष मानसं मतम् ॥
ततोऽभ्यासदशाया परामर्शकत्वेन स्पष्टत्वं मानसप्रत्यक्षमेव । प्रत्यक्षस्यापि स्पष्टत्वं स्वानुभवनेन तथैवान्वीक्षणादिति ।
__ तत् प्रत्यक्षमपि द्विविधं-सांव्यवहारिकं मुख्यं च । तत्राद्यं द्विविध-इन्द्रिप्रत्यक्षमनिन्द्रियप्रत्यक्ष चेति । तत्रेन्द्रियस्य चक्षुरादे. कार्यं यद् वहिर्नीलादिविषयसंवेदनं तदिन्द्रियप्रत्यक्षम् । तत्रापि शक्तिनियमादेव विषयनियमः । संवेदनस्य नियतशक्तिका हि संवित्तय. स्वहेतुमामादुपजायन्ते जन्मिनामिह । स्वनियतार्थग्रहणलक्षण भावेन्द्रियस्वभावाया योग्यताया एव साधकतमत्वादनुपचरितप्रमाणं ज्ञानमेव प्रत्यक्षम् । सुखादे. स्मरणादिज्ञानस्य च स्वरूपवेदनमनिन्द्रियप्रत्यक्षम् । अनिन्द्रियमिह तु न पौगलिकं मन प्रतिपत्तव्य किञ्च(किन्तु) क्षयोपशमविशेषाध्यासितः कश्चिदात्मप्रदेशविशेष एवानिन्द्रियम् । तत् पुनर्दिभेदमपि प्रत्यक्षं प्रत्येकमवग्रहेहावाय
१ मानुते भक्ष्णोति वा व्याप्नोति सकलद्रव्यक्षेत्रकालमावान् इति अक्षो जीवोऽनुते विषयमिति अक्षम् इन्द्रियं धा । अक्षमल प्रति गत प्रत्यक्षम् । इन्द्रियाण्याश्रित्य व्यवहारसाधकं यज्जानमुत्पद्यते तत् प्रत्यक्षमित्यर्थ । २ भक्षाणा परं परोक्षम्, अक्षे च परतो वर्तत इति वा ।