Book Title: Collection Of Jaina Philosophical Tracts
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 60
________________ अज्ञातकर्तृकः न हि धत्तूरकभावितानां बहूनामपि लोष्टादिपु सुवर्णज्ञानं भ्रान्तं न भवति । श्रूयते च शास्त्रेषु लोकेषु च शतम् अप्यन्धानां न पश्यति । किञ्च, यदि बहूनामुपलम्भः प्रमाणं तर्हि ज्ञानमयामूर्तत्वादिलक्षणयथावस्थितात्मनः स्वरूपे योगिपरिज्ञानमप्रमाणं स्यात् । योगिव्यतिरिक्तैः समस्तैरपि जनैस्तथाविधस्यात्मस्वरूपस्यापरिज्ञानात् । न च स्तोकानामपि योगिनां ज्ञानम् अप्रमाणं भवति । तस्मात् स्वल्पानामपि यज्ज्ञानं सम्यग भवति तदेव प्रमाणम् । ततश्च भवदादीनां शीतेऽपि वह्नौ उष्णत्वसंवेदनं भ्रान्तमेव । __ अथैवं प्रकटविकटकोपाटोपप्रकम्पमानतनूकै प्रतिपाद्यते वावदूकै. यथा-अस्मदादीनां वढेरुष्णत्वग्राहक ज्ञान भ्रान्तमिति कथ निश्चियते । न हि सर्वज्ञमन्तरेणान्यस्यवंजातीया शक्तिरस्ति । तदेतदपि प्रकटान्तर्वा(ा)प्तितां भवतां प्रकटयति । यतो यथा ह्येकत्रमहानसादौ धूमधूमध्वजयोरविनाभावग्रहणे सति सर्वत्रायम् असर्वज्ञस्यापि निश्चयो भवति यथा यत्र धूमस्तत्र वह्निर्भवत्येवेति । तथाऽत्राप्येकज्ञानस्य विपरीतार्थग्राहकस्य भ्रान्तत्वं निश्चीयते । एवं तथा विपरीतार्थपरिच्छेदकत्वात् । यद् यद् विपरीतार्थपरिच्छेदकं तत् तत् भ्रान्तम् । यथा शुक्तिकाशकले रजतज्ञानम् । विपरीतार्थपरिच्छेदकं चैतत् । तस्माद् भ्रान्तमिति । अथैवं निगद्यते निरवद्यहृयगद्यपद्यप्रवन्धवन्धुराभिर्वाग्भिर्भवद्भिः यथा शुक्तिकाशकले दूरदेशावस्थितत्वसदृशत्वादिकारणवशाद् रजतबुद्धिभवन्ती भ्रान्ता भवति । इह तु गीते वह्नौ उष्णत्वोपलब्धिः कुतः संजायते । इति न हि तावत् किमपि कारणमुपलभामहे येन भ्रान्तत्वं स्यात् । अतस्तस्माद् वहेरुष्णत्वसवेदनमभ्रान्तमेव । तदेतदपि वावद्यमान वसन्तसमयवन्न भवन्मनोरथमल्लिकावल्लिका पल्लवयति । यतोऽनाद्यविद्यावासनावशात् तुषारकणशीतलेऽपि वह्नौ उष्णत्ववुद्धिर्भवतां बोभवीति यथा दाखरूपेष्वपि विषयेषु सुखबुद्धिः कैश्चित्तु मन्त्रदेवतादिसान्निध्येन सकलपदार्थसार्धयाथात्म्यम् । तस्मात् प्रत्यक्षेणैवाशुशुक्षणे शीतत्वोपलम्भात् न प्रत्यक्षविरुद्ध पक्षः । नाप्यनुमानविरुद्धः । अथ प्रचण्डपण्डितप्रकाण्डमण्डलीमौलिमण्डनायमानैर्नि सूप्यतेऽभिरूपप्रधानै - यथा उष्णो वह्निर्दाहकत्वात् । यद् यद् दाहक तत् तदुष्णम् । यथा मार्तण्डमण्डलम् । दाहकश्चायम् । तस्माद् उष्ण एवेत्यनुमानेनानुमानविरुद्धोऽयम् । नन्वेतदपि विचारासहमेव । तथाहि प्रत्यक्षविरुद्धाऽसौ प्रतिज्ञा, वढे शीतत्वस्य प्रत्यक्षपक्षविनिस्थापितत्वात् । अनुमानविरुद्धा नास्मदीया [प्रतिज्ञा] । अनुमाने न (च) हेतुरप्यनैकान्तिक. । हिमे गीते त्वपि (गीतेऽपि) दाहकत्वोपलम्भात् । दृष्टान्तोऽपि साध्यविकल. तस्यापि शीतत्वात् ।

Loading...

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193