Book Title: Collection Of Jaina Philosophical Tracts
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad
________________
प्रमाणसुन्दरः ।
"आर्षं धर्मोपदेशं च वेदशास्त्राविरोधिना । यस्तर्केणानुसंधत्ते स धर्मं वेद नेतरः || ” इति
१३१
अन्यथाऽनुमानादेरपि तथात्वप्रसङ्गात् । न चास्यानुमानत्वेनानवस्थापत्तिस्तदनुमानलिङ्गा विनाभावस्याप्यन्यस्मादनुमानादवगम इत्यपरापरस्यानुमानस्यापेक्षणात् ततोsनुमानादन्यतम एवादसोयो विकल्पः प्रमाणयितव्य इति तर्कोऽनुमानानं प्रमाणमन्यथा लिङ्गस्य स्वसाध्याविनाभावनियमस्य ततोऽनवगमप्रसङ्गात् । ततोsस्तु स्मरणादेरौपचारिकस्यानुमानस्य प्रामाण्यमेवं मुख्यस्यापीति ।
अथ मुख्यमनुमानमाह-तत्र साध्याविनाभावनियमलक्षणं साधनम्, ततो निश्चयलक्षणात् साधनादेव साध्यस्य शक्याभिप्रेताप्रसिद्धस्यैव यद् विज्ञानं तदनुमानमिति तन्निश्चयोऽविसवादादेवास्य स्ववेदनेषु प्रामाण्यव्याप्तत्वेन प्रतिपत्तेर्निश्चितव्याप्तिकादर्थादर्थान्तरप्रतिपत्तेश्चेति ।
अत्र तु बहिर्व्याप्तेरनुमानस्यान्तर्व्याप्तेरर्थापत्तेर्भिन्नप्रमाणत्वमिति न मन्तव्यम्, यतोऽमेऽस्या एवानुमानेऽन्तर्व्याप्तेर्गमकाङ्गत्वेन समर्थयिष्यमाणत्वात् ; ततः 'पर्वतोऽयमग्निमान् धूमवत्त्वात्' इतिवत् 'अग्निरयं दाहशक्तिमान् दाहदर्शनात् ' इतीदमप्यनुमानमेव नान्यदिति ।
अथ प्रत्यक्षादावनन्तर्भावादभावस्य प्रमाणान्तरत्वं घटाद्यभावेन प्रतीयमानत्वादित्यपि बालविलसितम् । तत्रापि प्रत्यक्षमेव प्रमाणं यतो घटाभावो नाम भूतलस्य कैवल्यमेव नापरोऽप्रतिवेदनात् । तत्रापि 'घटो नास्ति' इत्याकारस्यानुभूयमानघटाविशिष्टतयोपलभ्यमानतत्कैवल्यपरामर्शिनः प्रत्यभिज्ञानत्वेन तदनन्तर्भावानुपपत्तेः 'नास्त्यत्र घटोऽनुपलब्धेर्गगनतामरसवत्' इत्याकारस्याप्यनुमानेऽन्तर्भावान्न प्रमाणान्तरत्व मति प्रमाणपरिमाणनियमः ।
तत्र त्रैरूप्यं पाञ्चरूप्यं' वा हेतोर्लक्षणमित्यपि बालविलसितम् तदाभासेऽपि सम्भवात्। पक्षधर्मत्वागमकत्वम् यथा 'उदेष्यति शकट कृत्तिकोदयात् ' तदभावश्च शकटे धर्मिण्यदेष्यत्वे साध्ये कृत्तिकोदयस्य हेतोरभावात् । कालस्य मुहूर्तधर्मित्वे चेत् तर्हि ‘भूतलं पर्वताग्निमद् अयस्कार कुटीरधूमत्वात्' इत्युभयगर्भ विस्तारिणो भूतलस्य धर्मित्वेन हेतो. पक्षधर्मतोपपत्तेः । सपक्षे सत्त्वमगमकम्, यथा विनैनमपि केवलयतिरेकिणो
१ पक्षधर्मत्वम् १ सपक्षे सत्त्वम् २ विपक्षाद् व्यावृत्ति ३ भवाधितविषयत्वम् ४ असत्प्रतिपक्षत्वम् ५ चेति । २ हेतोर्य पक्षेन सम्बन्ध पक्षे व्याप्यवृत्तित्व तत् पक्षधर्मत्वम् ।
Page Navigation
1 ... 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193