Book Title: Collection Of Jaina Philosophical Tracts
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 154
________________ १३० श्रीपद्मसुन्द्रविरचितः अथान्तरङ्गकार्मणकलङ्कविश्लेषविशेषोदयनिबन्धनः कश्चिदस्पष्टत्वापरनामा स्वानुभवसंवेद्यः प्रतिभासविशेषः परोक्षम् । तदपि द्विविधम्-अनुमानमागमश्चेति । अनुमानमपि द्विविधम्-गौणं मुख्यं चेति । तत्र गौणं त्रिधा-स्मरणं, प्रत्यभिज्ञानं तर्कश्चेति । तदित्यनुभूतस्मृतिसङ्कलनात्मकं सामान्यविषयवेदनं स्मरणम् । तदिति प्राप्तिकाले तस्यासन्निपातादिति न मन्तव्यं प्रत्यक्षस्यैव स्मरणविषयस्य निक्षेपादेस्तद्विषयस्योपलम्भप्रतीतेः । तिर्यगूर्वतासामान्यविषयानुभवागमाद्याहितसस्कारविशेषतया 'स एवायम्' इत्यादिज्ञानं प्रत्यभिज्ञानम् । तत्र 'गोसदृशो गवयः' 'तद्विसदृशो महिषः' इत्यादेरुपमानत्वान्न प्रत्यभिज्ञानमिति नानुमन्तव्यम् । तत्रेदमस्मादुन्नतमवनतमुपचितमणुदीर्घमित्यादेरुपमानत्वासम्भवाद् भवतु प्रत्यभिज्ञानम् । ततोऽन्याथा 'नीरक्षीरविवेचनचरणो मरालो', 'मधुव्रत. पट्चरण.', 'शिखण्डमण्डितः शिखण्डी' इत्यादिवाक्योपजनितसंस्कारस्य पुनस्तदर्शने स एवात्र मरालादिशब्दस्यार्थ इति वाच्यवाचकसम्बन्धपरिज्ञानस्योपमानवदप्रत्यभिज्ञानत्वे तु प्रमाणान्तरस्य चतुःप्रमाणीनियमव्याघातविधायिनः प्रसङ्गादुपमानस्यैव प्रत्यभिज्ञानेऽन्तर्भावो भवतादिति समाधिः । ततः सादृश्यादिना प्रागागमाद्यवगतस्य पूर्वापरानुसधानानुविधैकसवेदनसामान्यात्मकप्रत्यभिज्ञानतः प्रत्यभिज्ञानत्वस्यैवोपपत्तरित्युपमानस्याप्येतल्लक्षणेनैव प्रामाण्यमिति । तथेदमित्थमेव सम्भवति नानिमिति सर्वाक्षेपेण व्याप्तिपरिज्ञानात्मा तर्कः । न चास्य विकल्पात्मकत्वेन सशयादिवदप्रामाण्यम् । किञ्च, सदिग्धेऽर्थे न्यायः प्रवर्तते इति पारम्पर्यस्य सुवचत्वाद् विचारकत्वात् तद्वतः सर्वदर्शित्वापत्तेरिति । तथोक्तम् -- "प्रत्यक्षादिप्रमाणानां तर्कोऽनुग्राहको भवेत्" इति; तथोदयनः "ऊहापरनामातिप्रसङ्गात्मा तर्क" इति, तथा मनु.... लक्षणमभिधानमुदहति । ततो यथा सकल घनपटलकुटकुट्याद्यावरणापगमे भानोरन्य एव स्फुटरूपः प्रकाशः स्यात् तहापि सकलमतिज्ञानाद्यावरणविलयेन तथाविधो मतिज्ञानादिसजित• केवलज्ञानस्ये(स्य)व स्फुट प्रकाशो भवति । सर्वात्मना यथावस्थितवस्तुपरिच्छेदरूप. इत्यदोषः। अन्ये पुनराहुः अन्त्येव मतिज्ञानादीनि सयोगिकेवल्यादौ केवलफलत्वान्न विवक्ष्यन्ते यथा सूर्योदये नक्षत्रादीनि । केवल शुद्धं च तदावरणमलपङ्क पगमात् । सकल वा तत् प्रथमत येव नि शेषतदावरणविगमतः संर!त्यते । अप्ताधारण चानन्यसदृशन्वात् । अनन्तं वा ज्ञेयानन्तत्वात् कालाद्वा । केवल च तद् मानव केवलज्ञानम् । इन्द्रिये पोऽतिकान्त ज्ञानमतीन्द्रियम् । यद्वा इन्द्रियाणि अतिक्रान्तमतीन्द्रियम् ।

Loading...

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193