________________
१३०
श्रीपद्मसुन्द्रविरचितः अथान्तरङ्गकार्मणकलङ्कविश्लेषविशेषोदयनिबन्धनः कश्चिदस्पष्टत्वापरनामा स्वानुभवसंवेद्यः प्रतिभासविशेषः परोक्षम् । तदपि द्विविधम्-अनुमानमागमश्चेति । अनुमानमपि द्विविधम्-गौणं मुख्यं चेति । तत्र गौणं त्रिधा-स्मरणं, प्रत्यभिज्ञानं तर्कश्चेति ।
तदित्यनुभूतस्मृतिसङ्कलनात्मकं सामान्यविषयवेदनं स्मरणम् । तदिति प्राप्तिकाले तस्यासन्निपातादिति न मन्तव्यं प्रत्यक्षस्यैव स्मरणविषयस्य निक्षेपादेस्तद्विषयस्योपलम्भप्रतीतेः ।
तिर्यगूर्वतासामान्यविषयानुभवागमाद्याहितसस्कारविशेषतया 'स एवायम्' इत्यादिज्ञानं प्रत्यभिज्ञानम् । तत्र 'गोसदृशो गवयः' 'तद्विसदृशो महिषः' इत्यादेरुपमानत्वान्न प्रत्यभिज्ञानमिति नानुमन्तव्यम् । तत्रेदमस्मादुन्नतमवनतमुपचितमणुदीर्घमित्यादेरुपमानत्वासम्भवाद् भवतु प्रत्यभिज्ञानम् । ततोऽन्याथा 'नीरक्षीरविवेचनचरणो मरालो', 'मधुव्रत. पट्चरण.', 'शिखण्डमण्डितः शिखण्डी' इत्यादिवाक्योपजनितसंस्कारस्य पुनस्तदर्शने स एवात्र मरालादिशब्दस्यार्थ इति वाच्यवाचकसम्बन्धपरिज्ञानस्योपमानवदप्रत्यभिज्ञानत्वे तु प्रमाणान्तरस्य चतुःप्रमाणीनियमव्याघातविधायिनः प्रसङ्गादुपमानस्यैव प्रत्यभिज्ञानेऽन्तर्भावो भवतादिति समाधिः । ततः सादृश्यादिना प्रागागमाद्यवगतस्य पूर्वापरानुसधानानुविधैकसवेदनसामान्यात्मकप्रत्यभिज्ञानतः प्रत्यभिज्ञानत्वस्यैवोपपत्तरित्युपमानस्याप्येतल्लक्षणेनैव प्रामाण्यमिति ।
तथेदमित्थमेव सम्भवति नानिमिति सर्वाक्षेपेण व्याप्तिपरिज्ञानात्मा तर्कः । न चास्य विकल्पात्मकत्वेन सशयादिवदप्रामाण्यम् । किञ्च, सदिग्धेऽर्थे न्यायः प्रवर्तते इति पारम्पर्यस्य सुवचत्वाद् विचारकत्वात् तद्वतः सर्वदर्शित्वापत्तेरिति । तथोक्तम् -- "प्रत्यक्षादिप्रमाणानां तर्कोऽनुग्राहको भवेत्" इति; तथोदयनः "ऊहापरनामातिप्रसङ्गात्मा तर्क" इति, तथा मनु....
लक्षणमभिधानमुदहति । ततो यथा सकल घनपटलकुटकुट्याद्यावरणापगमे भानोरन्य एव स्फुटरूपः प्रकाशः स्यात् तहापि सकलमतिज्ञानाद्यावरणविलयेन तथाविधो मतिज्ञानादिसजित• केवलज्ञानस्ये(स्य)व स्फुट प्रकाशो भवति । सर्वात्मना यथावस्थितवस्तुपरिच्छेदरूप. इत्यदोषः। अन्ये पुनराहुः अन्त्येव मतिज्ञानादीनि सयोगिकेवल्यादौ केवलफलत्वान्न विवक्ष्यन्ते यथा सूर्योदये नक्षत्रादीनि । केवल शुद्धं च तदावरणमलपङ्क पगमात् । सकल वा तत् प्रथमत येव नि शेषतदावरणविगमतः संर!त्यते । अप्ताधारण चानन्यसदृशन्वात् । अनन्तं वा ज्ञेयानन्तत्वात् कालाद्वा । केवल च तद् मानव केवलज्ञानम् । इन्द्रिये पोऽतिकान्त ज्ञानमतीन्द्रियम् । यद्वा इन्द्रियाणि अतिक्रान्तमतीन्द्रियम् ।