________________
श्रीपनसुन्दरविरचितः
प्रमाणसुन्दरः ॥ ॐ नमः स्याद्वादवादिने ॥ स्यात्कारमुद्रितानेकसदसद्भाववेदिनम् । प्रमाणरूपमव्यक्तं भगवन्तमुपास्महे ।।
सम्यक्स्वपरव्यवसायात्मकं ज्ञानं प्रमाणं प्रमाणत्वान्यथानुपपत्तेः' । द्विरूपं हि व्यवसायस्वभावसंवेदनम्-प्रवृत्तिरूपं निवृत्तिरूपं चेति । न चेत्थं स्वपरविषयतया मरुमरीचिकातोयादिवेदनस्यापि प्रामाण्यप्रसङ्ग । तथैवाव्युत्पन्नसंशयादेरपि न प्रामाण्यमसम्यक्त्वात् । ततोऽस्तु सुपरिच्छिन्नत्वेन ज्ञानव्यक्तिषु सम्यक्त्वस्यैवोपपन्नत्वम् । न चेदमव्युत्पन्नसंशयादिनिवृत्तिरूपमेव नीरूपत्वापत्ते. । नापि प्रवृत्तिरूपमेव स्वरूपादिनैवाव्युत्पन्नसशयादिरूपेणापि तद्रूपत्वापत्तः । व्यवसायस्य चाव्यु. त्पन्नसगयादिना विरोधप्रसिद्धे. । तन्मुख्यतस्तु सुपरिज्ञातज्ञानस्यैव तत्र करणत्वम् । अचेतनस्य त्विन्द्रियलिङ्गादेस्तत्र करणत्वं वातायनादेः प्रकाशस्योपचारादेव 'अन्नं वै प्राणा' इत्यादिवत् । उपचारश्च तद्वयवच्छित्तौ सुपरिज्ञातज्ञानस्येन्द्रियसहायतया प्रवृत्तेः ।
तथा सवेदनस्य द्विविधो विषय. – स्वरूपम् , अर्थश्चेति । तत्रोभयत्र तत एव' प्रमितिवि(वि)श्वरूपत्वात् । सवेदनं तु प्रकाशरूपमेवानन्यव्यवहितज्ञानस्वरूपेण
१ सम्यगिति अत्र च दग्धदहनन्यायेन यावदप्राप्तं तावद्विधेयमिति विप्रतिपन्नानाश्रित्य स्वपरेत्यादिकमव्युत्पन्नान् प्रति प्रमाण प्रमाणप्रमेयापलापिनस्तूद्दिश्य द्वयमपि विधेय, शेष पुनरनुवाद्यम् । तत्र प्रमाणमिति प्राग्वत् , स्वमात्मा ज्ञानस्य स्वरूपम्, पर स्वस्मादन्योऽर्थ इति यावत्, तयोर्व्यवसायो निश्चयस्तद् आत्मा यस्य तत् . ज्ञायते प्राधान्येन विशेषो गृह्यतेऽनेनेति ज्ञानम् । एतच्च विशेषणमज्ञानरूपस्य व्यवहारधुराधौरेयतामनादधानस्य सन्मात्रगोचरस्य स्वसमयप्रसिद्धदर्शनस्य सन्निकर्षादेश्वाचेतनस्य नैयायिकादिकल्पितस्य प्रामाण्यपराकरणार्थम तस्यापि च प्रत्यक्षरूपस्य शाकौशाक्य ) निर्विकल्पकतया प्रामाण्येन जल्पितस्य संशयविपर्ययानध्यवसायाना च प्रमाणत्वव्यच्छेदार्थ व्यवसायीति । स्पष्टनिष्टक्यमानपारमार्थिकपदार्थसार्थलुण्टाकज्ञानाद्वैतवादिमतभत्यसितु परेति । नित्यपरोक्षवुद्धिवादिना मीमांसकानामेकात्मसमवायिज्ञानान्तरप्रत्यक्षज्ञानवादिनां यौगानामचेतनज्ञानवादिना कापिलाना च कदाग्रह निग्रहीतु स्वेति। ये केचनैवमङ्गीकुर्वन्ति चक्षु प्रमाणम् कस्मात्, प्रमाकरणत्वात् , तदयुक्तम् । चक्षुषा प्रमाकरणत्वाभावात् । प्रमाकरण तु प्रमाता भवति घटोरि भवति । अतो हेतो. प्रमाकरणत्वाभाव. । प्रमाणस्याप्यभाव स्वज्ञानाभावात् । यतो येन स्व न ज्ञायते तस्य परस्य ज्ञानमपि न भवति । अत. स्वपद युक्तमेव । चक्षुष. प्रकाशन ज्ञान भवति न तु स्वप्रकाशनम् । येन ज्ञानेन स्वप्रकाशो जायते परप्रकाशो जायते तदेव ज्ञानं प्रमाणमिति । २ द्विमेदम् । ३ सुज्ञानत्वेन । ४ खरशिरसि विषाणवत् सर्वथा नोस्वभावत्वापत्तेः । ५. अनध्यवसाय । ६ संवेदनादेव । ७ व्यापकत्वात् ।।