Book Title: Collection Of Jaina Philosophical Tracts Author(s): Nagin J Shah Publisher: L D Indology AhmedabadPage 88
________________ जिनमण्डननिबद्धम् त्रौकते । तत्राद्यो नानवद्य' यतः सा यसत्त्वस्य पूर्वमेव प्रतिपादितत्त्रात् । नापि द्वितीयः । न हि कोऽपि प्रामाणिकग्रामणी. प्रमाणाविषयीभूतस्य सान्यस्य प्रमाणविषयीकरणाय रणरणकपरायणो बोभूयते । किञ्च, साध्यस्य प्रमाणाविषयत्वे हेतुप्ररूपणमपि निराश्रयत्वमशिश्रियदेव । न हि क्वापि मातरमन्तरेण सुतरत्नजननमहोत्सव प्रोत्साह्शालिनाम, प्रामं विना वा निस्सीमाभिरामसीमानिवेशव्यवस्था । अथ तृतीयेऽपि साध्यन्यायथार्थत्वं किं प्रमाणनिराकृतत्वेन उत व्यभिचारित्वेन किं वा विसवादित्वेन प्रणिजागयेत । प्रमाणनिराकृतत्वमपि किं तदानीम् कालान्तरे वा ! तदानीमित्यङ्गीकारे 'अनुष्णः कृष्णवा' 'कृतकमाकाशम्' 'शुचि नरशिर कपालम्' इत्यादिवत् प्रमाणादिनिराकृतत्वेन साध्यत्वाऽघटनात् , हेतो. कालात्ययापदिष्टत्वापत्तेश्च निराकृतरचसाध्यधविशंपणताकुट्टिनी पक्षपृष्ठिलग्ना कथं निवारणीया वा । कालान्तरे प्रमाणनिराकृतत्वस्य सम्प्रत्यात्मनामविषयत्वात् । तन्न निराकृतत्वेनाऽयथार्थत्वम् । नापि व्यभिचारित्वम् । तत्रापि कि यत्र यत्र साधनं न तत्र नत्र साध्यमिति देशत. कि वा यदा यढा साधनं न तदा तदा साध्यमिति कालतो वा ? किं चातः । उभयथापि व्यभिचारित्वे हेतोरनैकान्तिकताकलङ्कपङ्कपड्किलत्वं कथमपि न प्रक्षालयितुमल भूयते । किञ्च, भवताऽपि साध्यसाधनयोर्देशकालाभ्यां व्याप्तिप्रकटनपटुतामन[ङ्गीकारात्] व्यभिचारित्वेऽस्य स्वयमेव निराकरिष्यमाणत्वात् । तन्न व्यभिचारित्वम् । विसंवादित्वमपि किं संवादाभावेन वा स्यादुत विरुद्धसंवादेन वा । यद्याद्य. प्रकारः प्रचारकारी तदा हेतोरसिद्धता प्रोद्धतपामरोपरीरम्भारम्भवद् दुर्भगीभावस्य ऋभुविभुनापि पराभवितुमशक्यत्वात्। द्वितीये तु विरुद्धता उद्धतवुभुक्षितराक्षसी साधनस्य कण्ठष्ठिविलग्ना न कथमपि पश्चात्कर्तुं प्रभूयते भूतपतिनापि । तन्न साध्यस्याप्रतीतता सम्भविनी। तदभावे दुरुपपादमेव साध्यम् । तदभावे हेतोर्व्याप्तिवर्णनं सकर्णानां गगनाङ्गणोद्गतप्रगुणारविन्दलीलामनुशीलयत्यविकलां कलाशालिनाम् । ____ अथ भवतु भवदभिमत यथाकथञ्चित् साध्यम् । न तत्र वयं विवदामहे | परं "विदुषां वाच्यो हेतुरेव हि केवल" [प्रमाणवा० ३,२६] सायसिद्धिनिवन्धनमिति कृत्वा सोऽपि कञ्चिद्विचारपदवीमधिरोप्यते । तथाहि—स कि भवन्निरूपितो हेतु सकलकलाशालित्वान्त.समीहितसल्लक्षणपुरस्कृत' स्यादाहोस्वित् परोलक्षदक्षविक्षेपितलक्षणवैमुख्यसमालिङ्गितो वा ८ इति पक्षोभयो । तत्र यदि द्वितीया भित् तर्हि हेतोर्निर्लक्षणत्वेन साध्यसिद्धावकिञ्चित्करत्वात् । अकिञ्चित्करस्य च कार्यसिद्धावनादरणीयत्वात् । न हि कोऽपि प्रामाणिकीभूय भूयः प्रामाणिकसभायां निर्लक्षणत्वेनाकिञ्चित्कर हेतुमभिदधीत । अथ प्रथमा भिदा यदा प्रतीतिपथातिथीक्रियते तदा निशिततरदुर्द्धरधारोPage Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193