Book Title: Collection Of Jaina Philosophical Tracts
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 121
________________ 'हेतुखण्डनपाण्डित्यम् । ९३ तथा च पूर्वोपाधेरप्रयोजकत्वं जातम् । तद्दर्श्यते । तद्व्यतिरेक्यनुमानप्रकाशनपूर्वम् । तद्यथा-वेदविहिता हिंसा धर्मसाधनं भवति, अनिषिद्धत्वात् ब्राह्मणभोजनादिवत् । अत्राहिंसकत्वं प्रत्युपाधिः । एतद्योजना सुखावबोधाय लिख्यते । यथा यत्र यत्र अनिषिद्धत्वं तत्र तत्र अहिंसकत्वमिति नास्ति, वेदविहितहिंसया व्यभिचारात् । यत्र यत्र धर्मसाधनत्वं भवति तत्र तत्र अहिंसकत्वम्, यथा ब्राह्म[ण]भोजनादौ । यत्र यत्र अहिंसकत्वं तत्र तत्र धर्मसाधनत्वं भवति, यथा श्रुतपाठादौ । व्यतिरेकव्याप्तिस्त्वयम् — यत्र अहिंसकत्वं न भवति तत्र धर्मसाधनत्वमपि न भवति, यथा व्यर्थहिंसादौ । अत्राहिंसकत्व प्रत्युपाधिर्व्यावर्तमानो वेदविहितहिंसायां धर्मसाधनत्वं व्यावर्तयति । तथा च सिद्धं पक्षे साध्यापादन हेतु साध्याविनाभावित्वस्थापनेन प्रत्युपाधित्वम् । तथा चैवं मूलानुमानमागतम् । यथा वेदविहितहिंसा अधर्मसाधनं हिसात्वात् ब्राह्मणहिंसावदिति तथा चोपाध्याहतप्रमाणानुग्राहकलक्षणप्रत्युपाधिना एकलक्षणत्वेऽपि विरोधिधर्मित्वमुपाधिरिति । अथवा, कुमुदमेदमेदुरोदरप्रतिवाद्युद्भावितोपाधिमहाव्याधिव्याधूतस्तनंघयवादिन' पूर्वोक्तयुक्त्या निर्विलम्बप्रत्युपाध्याविर्भावनाशक्तौ प्रतिवादिदुर्मदापनोदाय निर्विलम्बमेव तदुद्भावनाप्रकारान्तरमाविर्भाव्यते । यथा प्रायो वादिविहितमूलानुमानसाधनवैपरीत्यं साधनाव्यापकसाध्यसमव्यापकलक्षणोपाधिना अन्वयव्यतिरेकाभ्यां व्यभिचारपरिहारपूर्वं मनसि विमृश्य प्रत्युपाधित्वेन भणनीयम् । प्रायो भणनादपरमपि तल्लक्षणं धर्ममुपाधिव्यतिरेकसपक्षे पूर्वोक्तोपपत्त्या सशोध्योपाधिलक्षणयोजनया मनसि सप्रधार्य प्रत्युपाधीकृत्योपाधिर्निराकार्यः । एतच्च सोदाहरणं दर्श्यते । यथा कोऽपि जैमिनिमुनिविनेयः कथश्चित् कयाचित् कर्मयोग्यतया सर्वपदार्थेष्वनित्यतां पश्यन् कश्चित् सुपर्वोपा [स] नासादितानन्योपमेयातिशयः सर्वसमर्थप्रत्यर्थिपार्थिवकदर्थनामन्मथप्रत्यर्थीयमानं कमपि महाराजानं प्रसृत्वररजनिकरदिनकरकर निकरजित्वरासख्यगुणज्योतिर्विस रपरास्तदुस्तमतमस्तोमभर यथार्थक्रिया समर्थार्थसार्थमिथ्यावासनावशपटुतरं वाचामगोचरं चिदानन्दाद्वैतरसास्वादसोदरमेकमेवाद्वितीयं ब्रह्म इति वदन् साक्षात् सकललोकालोकप्रकाशगोचरं महा ज्योतिः प्रसरमदीदृशत् । तदनु तद् [ति ] रिक्त चराचरप्रपञ्चसरपरमार्थसत्यता निराचि - कीषुः (र्षुः) स्वाभिमतमतस्थापनायानुमानमिदमवादीत् — "विवादपदं मिथ्या दृश्यत्वात् । यद् यद (द) दृश्यं तत् तन्मिथ्या, यथा शुक्तिशकले कलधौतम् । दृश्यते च विवादपदम् ।

Loading...

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193