Book Title: Collection Of Jaina Philosophical Tracts
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad
________________
साधुविजय निवद्धम्
अतोऽनेकदो पदूपितलक्षणाधीनोपाधेर्हेत्वाभासातिरिक्तदूषणत्वं नोपपत्तिपद्धतिपदवीमवगाहते विचारासहत्वादाकाशकुशेशयसुरभित्वसाध्यवदिति । अत एव प्रत्यक्षपरोक्षप्रमाणप्रगुणीभवदादेशद्वैतादिष्ट स्पष्टाभङ्ग सप्तभङ्ग्याविर्भावितवस्त्वनन्तधमात्मका (क)त्वोपस्थापितार्थक्रियोपपत्तिशक्तिव्यक्तीभव (त्) स्याद्वादमहावादा (द) व्यासोपन्यासविस्मयीकृतभूमण्डलाखण्डलदत्तसर्वज्ञपुत्रविरुदैर्वादिमदविद्रावणोन्निद्रैरत एव जैनेन्द्रचन्द्रैरुपाधौ व्यभिचारातिरिक्तदूषणत्वं नाङ्गीक्रियते । जनेन्द्राणां च पुरतः का एता विभीषिकाः यतः उक्तं स्याद्वादरत्नाकरे
१००
-
तावदेव लभते प्रतिष्ठितं प्रोक्तमेतदखिलं कुतीर्थिकैः ।
यावदेव न जिनेन्द्रसूनवो व्यञ्जयन्ति दृढयुक्तिडम्बर [म् ] ॥
अत एव सर्वापरतीर्थिष्वहंप्रथमत् ( त )स्तानेव वृणुते साधुविजयलक्ष्मीः ।
*
*
*
जिनहर्षं गुरुं नत्वा स्मृत्वा सारस्वतं महः । पराक्षिप्तेन सत्पदोपन्यासाय प्रयत्यते ॥
इह हि कश्चिदखर्वगर्वपर्वतारोहणाग्रणीः प्रवीणप्रामाणिका(क)ग्रामणीः प्राथमिकप्रामाणिकं स्वगुरुचरणपरिचर्याचरणप्रसाद संवाद सोदरं सिद्धसारस्वतोद्गारानुकारं गङ्गापगोत्तुङ्गचङ्गरङ्गतरङ्गभङ्गीसुभगं तत्तदनवसथ (तत्राप्यनवद्यसद्य) स्कप्रा (प्र) माणप्रयोगं व्याचक्षाणं विचक्षणं वीक्ष ( क्ष्य) अन्वयिव्यतिरेकिहेतुमहाविद्यानुमानवक्रच्छायानुमानहेतु खण्ड [न] उपाधिप्रत्युपाधिकर्षणोपायतत (त्) खण्डनादिना तत्पराजयाशक्तमात्मानं मन्यमानः स्वचण्डतुण्डताण्डवाडम्बरेण सर्वमयथावन्मन्यमानः स्वाखण्डप्रचण्डपाण्डित्यप्रकाशनाय स्वोत्कर्षाकर्षकप्रतिज्ञापदानि पापठीति शठतामठः । यथा
आकल्पकालं येऽनल्पविकल्पैर्जल्पनक्षमाः । वय [व]दामस्ते पचैरनिन्द्यैस्तत्र के परे ॥
अन्यच्च
घटीं वा यामं वा दिवसमपि वा जल्पितुमलं क्षमास्तेषां पङ्क्तौ न खलु गणनीया वयममी । स्फुटै सारैश्चञ्चद्बहुविधरसैः पद्यनिव हैयुगान्तं यावद्ये प्रभणितुमलं ते खलु वयम् ॥
Page Navigation
1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193