Book Title: Collection Of Jaina Philosophical Tracts
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 138
________________ ११२ श्रीमुनीश्वरसूरिनिवद्धः तर्हि खड्गाग्निमोदकोच्चारणे वदनस्य छेद- दाह - पूरणादिप्रसक्तिः । अथ द्वये कत्वं कथम् शब्दस्तु कर्णकोटरावलम्बी साक्षात् क्षितितलमिलितकुम्भस्तम्भाम्भोरुहादिभावरागिरित्यतस्तावत् तादात्म्यपक्षोऽपि न क्षेमकारः । १ तदुत्पत्तिरपि । शब्दादर्थ उन्मज्जेदर्थाद्वा शब्दः । शब्दादर्थश्चेत् तर्हि घटशब्दोच्चारणे [स]ति जलाssहरणक्रिया सिद्धैव को नाम सूत्र - प ( ख ) ण्ड - दण्ड-चक्रचीवरादिकारणमीलन क्लेशमाश्रयेदिति । वाक्यतः प्रयोजनं सिद्धम् । द्वितीयभिटाया तु अर्थाद्वा शब्दः । स तु ताल्वोष्ठपुटादिव्यापा [ रा ] देव दृष्टः, न तु कलशादेः । वाच्यवाचकभावोऽपि तदवस्थो व्यवस्थादौस्थ्यस्येमानमास्तिघ्नुते । किं वाच्यवाचकयोर्भेदो वाऽभेदो वा भेदाभेदो वा ? भेदश्चेत् तन्नियमितार्थग्रहणाभावादसम्बद्धताळूतालता लालग्यात् । अभेदे कथं साक्षात् शब्दार्थावुपलभ्येते तदित्ययुक्तिबन्धकीसम्पर्कतोऽस्पृश्य एवायं पक्षः । भेदाभेदपक्षश्चेत् पर्यायान्तरे कथञ्चिदविम्वग्भावात्मकः सम्बन्ध एवाङ्गीकृतः सुधा (घी) मद्भि [ ] | तदिति तटादर्शिशकुन्तपोतन्यायाज्जिनो क्तिष्वेव विश्रामः ॥ अर्थोपलब्धौ सन्निकर्षादेः प्रामाण्यमामनन्ति वैशेषिकाः । अदग्धदहनन्यायेन तान् प्रत्याचक्ष्महि । न वै सन्निकर्षादेरज्ञानस्य प्रामाण्यमुपपन्नम् । तस्यार्थान्तरस्येव स्वार्थव्यवसितौ साधकतमत्वानुपपत्तेः । न ह्यचेतनस्तम्भः स्तम्भान्तरं निश्चिनोति । न हीन्द्रियवदञ्जनभोजनादेः सन्निकर्षादर्थान्तरज्ञानं सजाघटीति । द्रव्येन्द्रियं तु भावेन्द्रियाधीनम् । भावेन्द्रिय ह्यात्मज्ञानमेव युक्त्यन्तरेण स्वीकृतं स्यादिति फलितार्थः । अपि च अर्थस्य प्रमितो प्रसाधनपटु प्रोचुः प्रमाणं परे तेषामञ्जन भोजनाद्यपि भवेद् वस्तु प्रमाणं स्फुटम् । आसन्नस्य तु मानतां यदि तदा संवेदनस्यैव सा स्यादित्यन्धभुजङ्गरन्नगमिव तीयैः श्रितं त्वन्मतम् ॥ [ 1 अत्यन्तव्यावृत्तानां पिण्डानां यत. कारणादन्योऽन्यस्वरूपानुगमः प्रतीयते तदनुवृत्तिप्रत्ययहेतु सामान्यम् । एकाकारा प्रतीतिरेकशब्दवाच्यता चानुवृत्तिः सर्वत्र गोत्वं गोत्वमिति । भावाः सामान्यविशेषात्मकाः स्वभावसामग्रीतः स्वत एव सामान्यविशेषात्मका' स्यु । घटे घटत्वमिति सामान्यम् । तदाश्रयाः सङ्ख्या-वर्णपरिमाणादयो विशेषाः । निर्विशेषं हि सामान्यं भवेत् खरविषाणवत् । सामान्यरहितत्वेन विशेषास्तद्वदेव हि ॥ [श्लो० वा० आकृति १०]

Loading...

Page Navigation
1 ... 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193