Book Title: Collection Of Jaina Philosophical Tracts
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 145
________________ प्रमाणसारः। , कृतज्ञानावरणा(ण)विवरतिमिरव्यतिकरपरिक्षये सार्बभ्यमेव । ननु पुरुषशेमुषीतारतम्ययोगतो ज्ञानतारतम्यं क्वचिद्विश्रान्तमेव । अत्र ताथागत. प्रत्यवतिष्ठते - ___ सर्व पश्यतु वा मा वा तत्त्वमिष्ट तु पश्यतु । तस्मादनुष्ठेयगतं ज्ञानमस्य विचार्यताम् । कीटसख्यापरिज्ञानं तस्य न क्वोपयुज्यते ॥ सर्व (दूरं) पश्यतु वा मा वा तत्त्वमिष्टं तु पश्यतु । प्रमाणं दूरदर्शी चेदेत गृध्रानुपास्महे || [प्र०वा० १.३३,३५] अत्र सर्वदर्शित्वे सर्वज्ञत्वे च । तात्पर्य हि सर्वगतपरिज्ञान भावादन्वयव्यतिरेकाभ्यां हेयोपादेयस्वरूपप्ररूपणमसगतं वनीवच्यते । तद्वान् अर्हन् निर्दोषत्वात् ; निर्दोषोऽयम् , प्रमाणाऽविरोधिवाक्त्वात् । रागाद्वा द्वेषाद्वा मोहाद्वा वाक्यमुच्यते ह्यनृतम् । यस्य तु नैते दोपास्तस्यानृतकारणं किं स्यात् ॥ [ ] इति विशेषार्थः । न च कवलाहारेण सार्वश्यं हीयते । ज्ञानं आधेयभूतम् । शरीरमाधारभूतम् । देहो हि पुग्गलमओ आहाराईहि विरहिओ न भवे । सिद्धा य अणाहारा सेसा आहारगा जीवा || [ ] इत्याप्तोक्तेः । उत्पन्ने ज्ञाने विशदत्वमेव न तु इन्द्रियतृप्तिः । अशनायोदन्ययोराहारेणैव तुष्टिः । ज्ञानं ह्यात्मगुणः । आहारसञ्ज्ञा तु शरीरस्य । क्षुधोदन्ये हि वेदनामुत्पादयतः सातावेदनीयशेषमस्तीति च । अतो वेदनीयान्तर्भूते एते, नैव मोहनीयकर्मप्रकृती। इति केवलिमुक्तिः। स्त्रीवेदमर्जितं कर्म, स्त्रीपुंसावात्मकर्मक्षये हि मुच्येते । आत्मा ह्युभयत्र समान एवेति स्त्रीमुक्तिः । ___ महावतिनां हि द्वघा नयः -निश्चयो व्यवहारश्च । व्यवहारनयः समवसरणादिभिर्जिनैरपि स्वीकृतः । व्यवहारनये[न] हि प्रतिष्ठार्थं भवत्प्रवजितार्यादिभिर्वस्त्रप्रावरणमाद्रियते, गुरुभिर्न [इति] कोऽयं गुरुशिष्यन्यायः । छमस्थैस्तु तीर्थंकरातिशयस्पृहा तु स्वप्नेऽपि दुर्लभा । बीहापदं धुभयत्र समानमेवेति सिद्धा वस्त्रप्रतिष्ठा । इति प्रस्तावागताः प्रकटं दिक्पटा[:] 'परिचये पर्यनुयोज्याः । __ अथ अस्पष्टं परोक्षम् । स्मरण-प्रत्यभिज्ञान-तर्कानुमानागमभेदतस्तत् पञ्चप्रकारम्। तत्र नैयायिकाः स्मरणज्ञानं प्रमाणाझं नाभिमन्यन्ते । तन्मते ज्ञानमर्थजम् । स्मरणं त्वविद्यमानस्यैव पदार्थस्य तत्तत्सस्कारप्रबोधामृतमनुभूतार्थगोचर तदित्याकारं स्मर

Loading...

Page Navigation
1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193