________________
प्रमाणसारः। , कृतज्ञानावरणा(ण)विवरतिमिरव्यतिकरपरिक्षये सार्बभ्यमेव । ननु पुरुषशेमुषीतारतम्ययोगतो ज्ञानतारतम्यं क्वचिद्विश्रान्तमेव । अत्र ताथागत. प्रत्यवतिष्ठते - ___ सर्व पश्यतु वा मा वा तत्त्वमिष्ट तु पश्यतु ।
तस्मादनुष्ठेयगतं ज्ञानमस्य विचार्यताम् । कीटसख्यापरिज्ञानं तस्य न क्वोपयुज्यते ॥ सर्व (दूरं) पश्यतु वा मा वा तत्त्वमिष्टं तु पश्यतु ।
प्रमाणं दूरदर्शी चेदेत गृध्रानुपास्महे || [प्र०वा० १.३३,३५]
अत्र सर्वदर्शित्वे सर्वज्ञत्वे च । तात्पर्य हि सर्वगतपरिज्ञान भावादन्वयव्यतिरेकाभ्यां हेयोपादेयस्वरूपप्ररूपणमसगतं वनीवच्यते । तद्वान् अर्हन् निर्दोषत्वात् ; निर्दोषोऽयम् , प्रमाणाऽविरोधिवाक्त्वात् ।
रागाद्वा द्वेषाद्वा मोहाद्वा वाक्यमुच्यते ह्यनृतम् ।
यस्य तु नैते दोपास्तस्यानृतकारणं किं स्यात् ॥ [ ] इति विशेषार्थः । न च कवलाहारेण सार्वश्यं हीयते । ज्ञानं आधेयभूतम् । शरीरमाधारभूतम् ।
देहो हि पुग्गलमओ आहाराईहि विरहिओ न भवे ।
सिद्धा य अणाहारा सेसा आहारगा जीवा || [ ] इत्याप्तोक्तेः । उत्पन्ने ज्ञाने विशदत्वमेव न तु इन्द्रियतृप्तिः । अशनायोदन्ययोराहारेणैव तुष्टिः । ज्ञानं ह्यात्मगुणः । आहारसञ्ज्ञा तु शरीरस्य । क्षुधोदन्ये हि वेदनामुत्पादयतः सातावेदनीयशेषमस्तीति च । अतो वेदनीयान्तर्भूते एते, नैव मोहनीयकर्मप्रकृती। इति केवलिमुक्तिः।
स्त्रीवेदमर्जितं कर्म, स्त्रीपुंसावात्मकर्मक्षये हि मुच्येते । आत्मा ह्युभयत्र समान एवेति स्त्रीमुक्तिः ।
___ महावतिनां हि द्वघा नयः -निश्चयो व्यवहारश्च । व्यवहारनयः समवसरणादिभिर्जिनैरपि स्वीकृतः । व्यवहारनये[न] हि प्रतिष्ठार्थं भवत्प्रवजितार्यादिभिर्वस्त्रप्रावरणमाद्रियते, गुरुभिर्न [इति] कोऽयं गुरुशिष्यन्यायः । छमस्थैस्तु तीर्थंकरातिशयस्पृहा तु स्वप्नेऽपि दुर्लभा । बीहापदं धुभयत्र समानमेवेति सिद्धा वस्त्रप्रतिष्ठा । इति प्रस्तावागताः प्रकटं दिक्पटा[:] 'परिचये पर्यनुयोज्याः ।
__ अथ अस्पष्टं परोक्षम् । स्मरण-प्रत्यभिज्ञान-तर्कानुमानागमभेदतस्तत् पञ्चप्रकारम्। तत्र नैयायिकाः स्मरणज्ञानं प्रमाणाझं नाभिमन्यन्ते । तन्मते ज्ञानमर्थजम् । स्मरणं त्वविद्यमानस्यैव पदार्थस्य तत्तत्सस्कारप्रबोधामृतमनुभूतार्थगोचर तदित्याकारं स्मर