________________
१२२
श्रीमुनीश्वरसूरिनिबद्धः इति । गुणपर्यायवद् द्रव्यम् । सहभाबिनो गुणाः, यथा आत्मनि ज्ञानविज्ञानादयः । क्रममाविनः पर्याया', यथा आत्मनि नरनारकतिर्यगादय इति । द्रव्यापेक्षया यं एव मावो नित्यः पर्यायापेक्षया स एवानित्य इत्यविरोध. । द्वे प्रमाणे - प्रत्यक्ष परोक्ष च । ज्ञानात् कर्मक्षये मोक्षः । मुक्ताः संसारिणो द्विविधा जीवा । अवयव(व)वाक्यमतुमानम् । सति कारणे कार्यम् । आत्मा कर्ता भोक्ता च । कर्मवादिनो जैनाः ॥
कर्मणः प्राधान्यं च । न होश्वरः कर्ता भवितुमर्हति, कर्मापेक्षत्वे सति सामर्थ्यरहितत्वात् प्रकृतवत् । सृजेच्चेत् स्वार्थात् कारुण्याहा ? न पोरस्त्या, तस्य कृतकृत्यत्वात् स्वार्थः कश्चन नात्ति । न हितीयः, परदुःखग्रहाणेच्छा हि कारुण्यम्, अतः सर्वान् सुखिन एव सृजेत् , नो वा, मूकैंडकुञ्जनात्यन्धजातमात्रविपत्तिमाग्मिः कर्ममर्मवशगैः क्रिमपराद्धम् ? अथ च तृणभ(त)रुपुरंदरयनुरमादीनामपि कर्तृपारवत्यं न संपश्यामहे । स कर्ता सशरीरो ऽशरीरों] वा ? सशरीरश्रेत् कुलालकुविन्दादिवद् घटपटोत्पत्तौ दृश्यरूपतापत्तरिति विशरारुतालतालुता लालग्यात् । अशरीरश्चेत् किं पिशाचादिबददृश्य इति ? तच्चेत्तइकिञ्चित्कर एव । अतो अनीश्वरं जगत् स्वस्वकर्मविपाकप्रादुर्भूतप्रभूतपुनर्भवत्वादिति सिद्धम् । दत्तः कर्तृवादाय जलाञ्जलि. ।
तत्र नैयायिका जटाधरविशेषा अक्षपादा. कर्तृवादिन । उर्वी-पर्वत-तर्वादिकं बुद्धिमद्धेतुकम् , कार्यत्वादिति । कार्य घटादि । कारणं त्रेधा समवायकारणम्, असमवायकारणं निमित्तकारणं च । समवायकारणं मृदादि । असमवायकारणं सूत्रखण्ड-दण्ड-चक्र-चीवरकुलालादि । निमित्तकारणं हीश्वर एव ।
"ईश्वरप्रेरितो गच्छेत् स्वर्ग वा श्वभ्रमेव वा ।
अज्ञो जन्तुरनीशोऽयमात्मनः सुख-दुःखयो. ॥" [महाभारत वन०३०.२८] इति ।
"सुखमात्यन्तिकं यत् तद् बुद्विग्राह्यमतीन्द्रियम् । तं वै मोक्ष विजानीयाद् दुष्प्रापमकृतात्मभिः ॥" [ ] "आनन्दं ब्रह्मणो रूपं तच्च मोक्षेऽमिव्यज्यते ।" [ ]
प्रत्यक्षमनुमानमागम इति प्रमाणत्रयम् । प्रतिज्ञा-हेतूदाहरणोपनय-निगमनान्यवयवाः पञ्चावयववाक्यम् ।
पृथिव्यप्तेजोवाय्वाकाशकालढिगात्ममनांसीति नव द्रव्याणि । प्रमाण-प्रेमेयसंशय-प्रयोजन-दृष्टान्त-सिद्धान्तावयव-तर्क-निर्णय-बाद-जल्प-वितण्डा--हेत्वाभास-उलजाति-निग्रहस्थानानां पोडनतत्त्वानां तत्त्वज्ञानानि.श्रेयसाधिगम इति । पोदा सम्बन्धसन्निकर्षप्रमाणवादिनो नयायिका.।