________________
प्रमाणसारः ।
अथ बौद्धा एकान्तानित्यवादिनोऽनधिगतार्थाधिगन्तृप्रमाणवादिनस्ताथागता
योगाः शून्यवादिनो ज्ञानाद्वैतवादिनश्च ।
ज्ञानिनो धर्मतीर्थस्य कर्तारः परमं पदम् । गत्वाऽऽगच्छन्ति भूयोऽपि भवं तीर्थनिकारतः ॥ इत एकनवते कल्पे शक्त्या मे पुरुषो हतः । तस्य कर्मविपाकेन पादे विद्धोऽस्मि भिक्षवः ॥ यथा यथा विचार्यते विशीर्यन्ते तथा तथा ।
यदेतत् स्वयमर्थेभ्यो रोचते तत्र के वयम् ॥ [ प्र० वा० २०९ - २१०] प्रपञ्चो मिथ्या प्रतीयमानत्वाद् मृगतृष्णाम्बुवत् । क्षणक्षयत्वाद्धि कार्यापोह एव । न तत्कारणमालक्तक इव भाविते कर्पासे रक्तता यथा, दग्धे रामले (ठे) परिमलो वा । क्षयस्वभावाः क्षणाः प्रतिक्षणं क्षीयमाना निरन्वयविनाशिनः क्षीयन्ते । परमन्वयरूपा वासना तिष्ठति । तयैव व्यवहारः स्यात् । अपि च गोत्वसामान्यमर्थक्रियाकारित्वाभावाद् व्यर्थम् । किन्तु व्यवहारिणो विशेषा एव । इयं कृष्णा गौ दोहनक्षमेति विशेषार्थता । प्रमाणद्वयम् — प्रत्यक्षमनुमान च । धर्मकीर्तेरमी शिष्या भगवद्वेषधारिणः ।
माने (मणि) पद्मे जपन्त्यन्नं पात्रप्राप्तमदन्ति च ॥
तत्र साङ्ख्या कापिला एकान्त नित्यवादिनोऽमी ।
१२३
1
साङ्ख्या निरीश्वराः केचित् केचिदीश्वरदेवताः । सत्कर्मवादिनः केऽपि केचित् कर्तृत्ववादिनः ॥
असदकरणादुपादानग्रहणात् सर्वसम्भवाभावात् ।
शक्तस्य शक्यकरणात् कारणभावाच्च सत्कार्यम् ॥ [ सां० का ० ९] अतिदूरात् सामीप्यादिन्द्रियघातान्मनोऽनवस्थानात् ।
सौक्ष्म्याद व्यवधानादभिभवात् समानाभिहाराच्च ॥ सौक्ष्म्यात् तदनुपलब्धिर्नाभावात् कार्यतस्तदुपलब्धे ।
महदादि तच्च कार्यं प्रकृतिसरूपं विरूपं च ॥ [ सां० का ० ७-८ ] सत्त्वरजस्तमसां साम्यावस्था प्रकृतिः । [ सा० सू० १. ६१] मूलप्रकृतिरविकृतिर्महदाद्या प्रकृतिविकृतयः सप्त ।'
1
षोडशकश्च विकारो न प्रकृतिर्न विकृति पुरुषः ॥ [सां० का ० ३] अव्यक्तमेकम्, महदहंकारः पञ्चतन्मात्राणि [ एकादशेन्द्रियाणि पञ्चभूतानि चेति] त्रयोविंशविधं व्यक्तम् ।