________________
१२०
श्रीमुनीश्वरसूरिनिबद्धः णम् , यथा 'स देवदत्तः' इति 'तत् तीर्थकरबिम्बम्' च । ननु त्वन्मतेऽप्यनुमानमविनाभावभावितधूमधूमध्वजयोः पूर्वानुभवस्मरणादेव । प्रमाणमपि अनुमानम् । अप्रामाणिकस्मरणसदर्शितस्यानुमानाङ्गस्य स्वीकारः कथं युक्तियुक्त. स्यादिति ? परं पूर्वानुभूतसाधनादविद्यमानस्यैव साध्यस्य वह्निमत्त्वादेः परिज्ञानम् । तस्यापि कालान्तरे क्षेत्रान्तरेऽपि प्रत्यक्षीकरणार्हत्वाददोप । एवं तत्तत्सस्कारप्रवोधः साधनम् , पूर्वानुभवसवेदनं साध्यम् । सिद्धमनुमानागामिति ।
तत्र प्रत्यभिज्ञानं ह्यनुभवस्मरणसाधनाद् यदभिज्ञानं गवलशावलेयादिपरिणामसामान्यवृत्त्या सर्वत्र गोत्वविषयम् ‘स एवाय जिनदत्त' इत्यादि । यथा चैत्राभिज्ञानात् मैत्रोऽपि साध्यते । वैशेषिकोपमान तु 'गोसदृशो गवयः' इति । तथा 'गोविसदृशो महिषः' इत्यपि स्यात् । नालिकेरदीपवासिनो हि द्वयमप्यप्रसिद्धमिति दुर्दरूट(ढ)कण्टकोद्धारः ।
तत्र तर्क ऊहाऽपरनामा विचार इति यावत् । कालत्रयवर्तिनोः साध्यसाधनयोरविनाभावसम्बन्धव्याप्त्या वाच्यवाचकविषयाविष्करणं 'इदमस्मिन् सत्येव भवति' इत्याकारं वेदन तर्क ऊह इति सज्ञान्तरं लभते । यतु(त्तु) ताथागता ऊहस्य प्रामाण्यं नोहांचक्रिरे, घटपटादिरित्यपोहमात्रम् , तेषामशेषशून्यत्ववादस्य निरवकाशत्वापत्तेः ।
आः किमिदमकाण्डकूष्माण्डाडम्बरोड्डामरमभिधीयते । तावच्छृणु श्रावयामि-तर्कस्तावदनुमानप्रमाणप्रामाण्यस्य प्राणाः ।
प्रमाणेतरसामान्यस्थितेरन्यघियो गतेः । प्रमाणान्तरसद्भावः प्रतिषेधाच्च कस्यचित् ॥ [धर्मकीर्ति] इत्याहुः ।
ऊहस्तावत्सामान्यविशेषात्मकवस्तुनः सम्बन्धालम्बनम् । तैस्तु प्रमाज्ञानविनाकृतैः पदार्थापोहः प्रोच्यते । अत एवायमलब्धपरमार्थ शून्यवादीति प्रसिद्धः । ऊहसिद्धिरित्यनुमानविशेषलक्षणम् । सामान्यलक्षणं तु साधनात् साध्यविज्ञानमनुमानं प्रसिद्धमिति ॥
आगमो ह्याप्तवचनमाप्ति दोषक्षयं विदुः । क्षीणदोपोऽनृतं वाक्य न यात्विसम्भवात् ।। [माठर, सा० का० ५] इति ।
आप्तवचनादाविर्भूतमर्थसंवेदनमागमः उपचारादाप्तवचनं च । अभिधेयं वस्तु यथावस्थितं यो जानीतेऽवञ्चकः स आप्तः । स च द्वेधा-लौकिको लोकोत्तरश्च । लौकिको जनकादिः लोकोत्तरस्तु तीर्थकरादिः । इति कालत्रयप्रमातृप्रवक्तप्ररूपितस्यागमस्य सिद्धिः । प्रमाणसड्याविप्रतिपत्तिरपास्ता। .