________________
प्रमाणसारः ।
१२१
अथ प्राचीनोत्तराकारपरित्यागोपादानेनानुगतप्रतीत्या तस्य विषयश्च सामान्यविशेषाद्यनेकात्मकं वस्तु हि, अर्थक्रिया सामर्थ्यान्यथाऽनुपपत्तेः । सामान्यं द्विप्रकारम्तिर्यगूर्ध्व तासामान्यभेदात् । गोत्व - साधारणजातित्वात् । विशेषोऽपि द्विरूपो गुणः पर्यायश्च । ज्ञानादिः सहभावी गुणः । सुखदुःखनरनारकादिः क्रमभावी पर्यायः । इति निरस्ता तद्विषय [वि] प्रतिपत्तिः ।
यत् प्रमाणेन साध्यते तदस्य फलम् । नैगम-सङ्ग्रह-व्यवहार-ऋजुसूत्रशब्द-समभिरूढ-एवंभूताः सप्तनयाः । अस्य नयस्य फलं प्रभावत् । तद् द्विविधम् आनन्तर्येण पारम्पर्येण । किन्तु प्रमातृस्वरूपमेव फलम् । न प्रमातरि सत्तावादिनां विप्रतिपत्तिरिति सिद्धम् ।
1
इति प्रमाण सारे प्रमाणस्य सङ्ख्या-विषय-फल- विप्रतिपत्तिव्याषेधको
द्वितीयः परिच्छेदः ।
*
*
दर्शनव्यवस्थास्थापनार्थमिदमुपक्रम्यते । ननु खलु भोः ! शारदशशाङ्कसमुज्ज्वलयशसो विशारदा' सुभवद्भिर्भवद्भिर्वाचोयुक्तीनां धुरिभवद्भिरहरहः शास्त्राभ्यासः समातन्यते । तदिह प्रेक्षाचक्षुः समक्ष साक्षेपं स्वपक्षे साधनं परपक्षे बाधनं कुर्महे महेच्छा[:]।
हं हो आदितस्तावन (त्) जैन-नैयायिक- बौद्ध-साङ्ख्य-वैशेषिक- जैमनीया इति दर्शनानि षट् । तत्र जैना अनेकान्तवादिनः । स्यादस्ति स्यान्नास्ति । स्यादि - त्यव्ययं ह्यनेकान्तद्योतकम् । एकस्मिन् सन्मुखवस्तुनि घटादावस्तित्वं नास्तित्वं 'चेत्यनेकान्तः ।
*
सर्वमस्ति स्वरूपेण पररूपेण नास्ति च ।
अन्यथा सर्वसत्त्वं स्यात् स्वरूपस्याप्यसम्भवः ॥ [
]
इति । घटे घटत्वमस्ति । यदेवार्थक्रियाकारि तदेव परमार्थसत् । घटे च पटत्वं नास्तीति तत्रैव पटाभावो युक्त्याssयातः केन निराकर्तुं शक्यते । अपि च परस्परविरुद्धमप्यनेकान्तयुक्त्या
नित्यानित्यत्वं
ह्येकस्मिन्नेव वस्तुनि
उभयं
समस्ति । यतः
१६
द्रव्यं पर्यायवियुत पर्यायाः द्रव्यवर्जिताः ।
क कदा केन सदृष्टा दृष्टा मानेन केन वा ॥ [
لا