________________
१२४
श्रीमुनीश्वरसूरिनिबद्धः पञ्चविंशतितत्त्वज्ञो यत्र तत्राश्रमे रतः ।
जटी मुण्डी शिखी वाऽपि मुच्यते नात्र संशयः ॥ [ ]
एषामाविर्भावतिरोभावौ कारणम् । नित्यः शब्दोऽकृतकत्वादाकाशवत् । यद्यदकृतकं तत् तन्नित्यं यथा सप्रतिपन्नम् । शब्दो हि ताल्वोष्ठपुटादिव्यापारैः सत्कारण एवाविर्भाव्यते न तूत्पाद्यते यथाऽपवरकान्तः संतमसे(सि) तिरोभूतः पदार्थसार्थः दीपप्रकाशेन प्रादु क्रियते न तु जन्यते । यतोऽविद्यमानस्य वाजिविषाणस्यानुत्पत्तिरेव । न षष्ठस्य भूतस्यासद्रूपस्यैवाविर्भावः । भावानां विपत्तिस्तु कारणभावाभावात् तिरोभाव एव । भावाः सामग्रीसद्भावे प्रादुर्भवन्ति । आविर्भावाभावात् तिरोभवन्ति । कारणवादिनोऽमी । कार्य हि कारणरूपमन्यथा वा । कारणं स्थिरैकरूपं चेद्विश्वं नित्यमेव । प्रत्यक्षमनुमानमागम इति प्रमाणत्रयम् । प्रकृतिवियोगो मोक्षः प्रवृत्तिस्वरूपाया विराम एव प्रकृतेः । प्रकृतिः करोति प्रकृतिश्च भुक्ते । आत्मा दर्पणवत् प्रतिबिम्बमात्रफलं लभते ।
____अथ वैशेषिकाः । द्रव्य-गुण-कर्म-सामान्य-विशेष-समवाया षट्पदार्थास्तत्त्वतयाऽभिप्रेताः । अर्थोपलब्धिहेतुः प्रमाणम् । प्रत्यक्षानुमानागमोपमानानि चत्वारि प्रमाणानि । तत्रोपमानं 'यादृग्गौस्तादृग्गवयः' ।।
कीदृग्गवय इत्येवं पृष्टो नागरिकैर्यदा ।
वदत्यारण्यको वाक्यं यथा गौर्गवयस्तथा ॥ बुद्धि-सुख-दुःखेच्छा-द्वेष-प्रयत्न-धर्माधर्म-सस्कारा नवात्मगुणाः । सुखादिगुणसन्तानोच्छेदे मोक्षः । आत्मविशेषगुणानां सन्तानोऽत्यन्तमुच्छिद्यते, सन्तानत्वात् । यो यः सन्तानः स सोऽत्यन्तमुच्छिद्यते । अथैतान् विप्रतिपन्नाः सगिरन्ते - को हि नाम शिलाकल्पमपगतसुखसवेदनमात्मानमुपपादयितुं यदे(ते)त । यतः -
वरं वृन्दावने रम्ये क्रोष्टत्वमभिवाञ्छति । ___ न तु वैशेषिकी मुक्तिं गौतमो गन्तुमिच्छति ॥ [ ] सामान्यविशेषवादिनोऽक्षपादा वैशेषिका जङ्गमकापालिकविशेषाः ।
भगवद्वेषधारिणो भाट्टा. प्राभाकरा ब्रह्माद्वैतवादिनो मीमांसकापरपर्यायाः सामान्यवादिन । प्रमाणादिचतुष्टयं न स्वीकुर्वते । सर्वं ब्रह्मविवर्तमेवेति ।
एक एव हि भूतात्मा देहे देहे व्यवस्थितः ।। एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ॥ [व० वि० १२] अद्वैतं परं(परमं) ब्रह्म नेह नानाऽस्ति किञ्चन ।