________________
१२५
प्रमाणसारः। आरामं तस्य पश्यन्ति न तं पश्यति कश्चन ॥ [बृहदा० ४. ३.१४] अशरीरा देवाः । चतुर्थ्यन्तं पदमिति देवताः यथा वषडिन्द्रायेति ।
अतीन्द्रियाणामर्थानां साक्षाद्रष्टा न विद्यते ।
नित्येभ्यो वेदवाक्येभ्यस्तत्त्वज्ञानार्थनिश्चयः ॥ वाग्व्यवहारार्थं प्राहु●मनीयाः
प्रत्यक्षमनुमानं च शब्दमुपमया सह । अर्थापत्तिरभावश्च षड् प्रमाणानि जैमिनेः ।। प्रमाणपञ्चकं यत्र वस्तुरूपे न जायते । वस्तुसत्ताववोधार्थं यत्राभावप्रमाणता ॥ [श्लो० वा० अभाव० १]
एतैः पञ्चभिः सत्तावादिभिः सर्व ब्रह्मविवर्तमेव मन्यमानो गेहे नर्दितया खण्डनवादीऽप्रामाणिकः परास्त्रैर्युयुत्सुराशामोदकतृप्त इव जैनेनापि वाक्चपेटया प्रोच्चाटनीयः ।
अथासदर्शनिनो नास्तिकाः परलोकात्ममोक्षापलापिनश्चार्वाका लौकायतिका बार्हस्पत्या विसदृशप्रत्यक्षकप्रमाणवादिनो गिरं संगिरन्ते स्म
एतावानेव लोकोऽयं यावानिन्द्रियगोचरः । भद्रे वृकपदं पश्य यद्वन्ति बहुश्रुताः ॥ पिब खाद च जातशोभने ! यदतीतं वरगात्रि ! तम्म ते । न हि भीरु ! गतं निवर्तते समुदयमात्रमिदं कलेवरम् ॥ किञ्च पृथ्वी जलं तेजो वायुभूतचतुष्टयम् ।
चैतन्यभूमिरेतेषां मान त्वक्षजमेव हि ॥ [षड्दर्शनसमु० ८१-८३] किञ्च, नानाकारं जगत् भ्रान्तिमानं मरुमरीचिकानिचयाम्बुवत् । पृथिव्यप्तेजोवायुरूपभूतचतुष्टयसमवायतश्चैतन्यं यथा धातुकीप्रसूनगुडद्वसंयोगादुन्मादवत् । नास्तिकोऽसौ सर्वापलापी वृथाप्रलापी पापीयान् सर्वैरपि सत्तावादिभिः प्रभूभूय च सम्भृय कैमुतकन्यायेन जैनेनापि निर्वास्य इति । इति सिद्धः षड्दर्शनसमुच्चयतात्पर्यार्थः ।
श्रीमुनीश्वरसूरीन्द्रः प्रोक्तस्तार्किकपर्षदि । मुनिहर्षमुनेरेष हस्तबाणः प्रमा[ण]तः ॥