Book Title: Collection Of Jaina Philosophical Tracts
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 149
________________ प्रमाणसारः । १२१ अथ प्राचीनोत्तराकारपरित्यागोपादानेनानुगतप्रतीत्या तस्य विषयश्च सामान्यविशेषाद्यनेकात्मकं वस्तु हि, अर्थक्रिया सामर्थ्यान्यथाऽनुपपत्तेः । सामान्यं द्विप्रकारम्तिर्यगूर्ध्व तासामान्यभेदात् । गोत्व - साधारणजातित्वात् । विशेषोऽपि द्विरूपो गुणः पर्यायश्च । ज्ञानादिः सहभावी गुणः । सुखदुःखनरनारकादिः क्रमभावी पर्यायः । इति निरस्ता तद्विषय [वि] प्रतिपत्तिः । यत् प्रमाणेन साध्यते तदस्य फलम् । नैगम-सङ्ग्रह-व्यवहार-ऋजुसूत्रशब्द-समभिरूढ-एवंभूताः सप्तनयाः । अस्य नयस्य फलं प्रभावत् । तद् द्विविधम् आनन्तर्येण पारम्पर्येण । किन्तु प्रमातृस्वरूपमेव फलम् । न प्रमातरि सत्तावादिनां विप्रतिपत्तिरिति सिद्धम् । 1 इति प्रमाण सारे प्रमाणस्य सङ्ख्या-विषय-फल- विप्रतिपत्तिव्याषेधको द्वितीयः परिच्छेदः । * * दर्शनव्यवस्थास्थापनार्थमिदमुपक्रम्यते । ननु खलु भोः ! शारदशशाङ्कसमुज्ज्वलयशसो विशारदा' सुभवद्भिर्भवद्भिर्वाचोयुक्तीनां धुरिभवद्भिरहरहः शास्त्राभ्यासः समातन्यते । तदिह प्रेक्षाचक्षुः समक्ष साक्षेपं स्वपक्षे साधनं परपक्षे बाधनं कुर्महे महेच्छा[:]। हं हो आदितस्तावन (त्) जैन-नैयायिक- बौद्ध-साङ्ख्य-वैशेषिक- जैमनीया इति दर्शनानि षट् । तत्र जैना अनेकान्तवादिनः । स्यादस्ति स्यान्नास्ति । स्यादि - त्यव्ययं ह्यनेकान्तद्योतकम् । एकस्मिन् सन्मुखवस्तुनि घटादावस्तित्वं नास्तित्वं 'चेत्यनेकान्तः । * सर्वमस्ति स्वरूपेण पररूपेण नास्ति च । अन्यथा सर्वसत्त्वं स्यात् स्वरूपस्याप्यसम्भवः ॥ [ ] इति । घटे घटत्वमस्ति । यदेवार्थक्रियाकारि तदेव परमार्थसत् । घटे च पटत्वं नास्तीति तत्रैव पटाभावो युक्त्याssयातः केन निराकर्तुं शक्यते । अपि च परस्परविरुद्धमप्यनेकान्तयुक्त्या नित्यानित्यत्वं ह्येकस्मिन्नेव वस्तुनि उभयं समस्ति । यतः १६ द्रव्यं पर्यायवियुत पर्यायाः द्रव्यवर्जिताः । क कदा केन सदृष्टा दृष्टा मानेन केन वा ॥ [ لا

Loading...

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193