Book Title: Collection Of Jaina Philosophical Tracts
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 148
________________ १२० श्रीमुनीश्वरसूरिनिबद्धः णम् , यथा 'स देवदत्तः' इति 'तत् तीर्थकरबिम्बम्' च । ननु त्वन्मतेऽप्यनुमानमविनाभावभावितधूमधूमध्वजयोः पूर्वानुभवस्मरणादेव । प्रमाणमपि अनुमानम् । अप्रामाणिकस्मरणसदर्शितस्यानुमानाङ्गस्य स्वीकारः कथं युक्तियुक्त. स्यादिति ? परं पूर्वानुभूतसाधनादविद्यमानस्यैव साध्यस्य वह्निमत्त्वादेः परिज्ञानम् । तस्यापि कालान्तरे क्षेत्रान्तरेऽपि प्रत्यक्षीकरणार्हत्वाददोप । एवं तत्तत्सस्कारप्रवोधः साधनम् , पूर्वानुभवसवेदनं साध्यम् । सिद्धमनुमानागामिति । तत्र प्रत्यभिज्ञानं ह्यनुभवस्मरणसाधनाद् यदभिज्ञानं गवलशावलेयादिपरिणामसामान्यवृत्त्या सर्वत्र गोत्वविषयम् ‘स एवाय जिनदत्त' इत्यादि । यथा चैत्राभिज्ञानात् मैत्रोऽपि साध्यते । वैशेषिकोपमान तु 'गोसदृशो गवयः' इति । तथा 'गोविसदृशो महिषः' इत्यपि स्यात् । नालिकेरदीपवासिनो हि द्वयमप्यप्रसिद्धमिति दुर्दरूट(ढ)कण्टकोद्धारः । तत्र तर्क ऊहाऽपरनामा विचार इति यावत् । कालत्रयवर्तिनोः साध्यसाधनयोरविनाभावसम्बन्धव्याप्त्या वाच्यवाचकविषयाविष्करणं 'इदमस्मिन् सत्येव भवति' इत्याकारं वेदन तर्क ऊह इति सज्ञान्तरं लभते । यतु(त्तु) ताथागता ऊहस्य प्रामाण्यं नोहांचक्रिरे, घटपटादिरित्यपोहमात्रम् , तेषामशेषशून्यत्ववादस्य निरवकाशत्वापत्तेः । आः किमिदमकाण्डकूष्माण्डाडम्बरोड्डामरमभिधीयते । तावच्छृणु श्रावयामि-तर्कस्तावदनुमानप्रमाणप्रामाण्यस्य प्राणाः । प्रमाणेतरसामान्यस्थितेरन्यघियो गतेः । प्रमाणान्तरसद्भावः प्रतिषेधाच्च कस्यचित् ॥ [धर्मकीर्ति] इत्याहुः । ऊहस्तावत्सामान्यविशेषात्मकवस्तुनः सम्बन्धालम्बनम् । तैस्तु प्रमाज्ञानविनाकृतैः पदार्थापोहः प्रोच्यते । अत एवायमलब्धपरमार्थ शून्यवादीति प्रसिद्धः । ऊहसिद्धिरित्यनुमानविशेषलक्षणम् । सामान्यलक्षणं तु साधनात् साध्यविज्ञानमनुमानं प्रसिद्धमिति ॥ आगमो ह्याप्तवचनमाप्ति दोषक्षयं विदुः । क्षीणदोपोऽनृतं वाक्य न यात्विसम्भवात् ।। [माठर, सा० का० ५] इति । आप्तवचनादाविर्भूतमर्थसंवेदनमागमः उपचारादाप्तवचनं च । अभिधेयं वस्तु यथावस्थितं यो जानीतेऽवञ्चकः स आप्तः । स च द्वेधा-लौकिको लोकोत्तरश्च । लौकिको जनकादिः लोकोत्तरस्तु तीर्थकरादिः । इति कालत्रयप्रमातृप्रवक्तप्ररूपितस्यागमस्य सिद्धिः । प्रमाणसड्याविप्रतिपत्तिरपास्ता। .

Loading...

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193