Book Title: Collection Of Jaina Philosophical Tracts
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 146
________________ १२२ श्रीमुनीश्वरसूरिनिबद्धः इति । गुणपर्यायवद् द्रव्यम् । सहभाबिनो गुणाः, यथा आत्मनि ज्ञानविज्ञानादयः । क्रममाविनः पर्याया', यथा आत्मनि नरनारकतिर्यगादय इति । द्रव्यापेक्षया यं एव मावो नित्यः पर्यायापेक्षया स एवानित्य इत्यविरोध. । द्वे प्रमाणे - प्रत्यक्ष परोक्ष च । ज्ञानात् कर्मक्षये मोक्षः । मुक्ताः संसारिणो द्विविधा जीवा । अवयव(व)वाक्यमतुमानम् । सति कारणे कार्यम् । आत्मा कर्ता भोक्ता च । कर्मवादिनो जैनाः ॥ कर्मणः प्राधान्यं च । न होश्वरः कर्ता भवितुमर्हति, कर्मापेक्षत्वे सति सामर्थ्यरहितत्वात् प्रकृतवत् । सृजेच्चेत् स्वार्थात् कारुण्याहा ? न पोरस्त्या, तस्य कृतकृत्यत्वात् स्वार्थः कश्चन नात्ति । न हितीयः, परदुःखग्रहाणेच्छा हि कारुण्यम्, अतः सर्वान् सुखिन एव सृजेत् , नो वा, मूकैंडकुञ्जनात्यन्धजातमात्रविपत्तिमाग्मिः कर्ममर्मवशगैः क्रिमपराद्धम् ? अथ च तृणभ(त)रुपुरंदरयनुरमादीनामपि कर्तृपारवत्यं न संपश्यामहे । स कर्ता सशरीरो ऽशरीरों] वा ? सशरीरश्रेत् कुलालकुविन्दादिवद् घटपटोत्पत्तौ दृश्यरूपतापत्तरिति विशरारुतालतालुता लालग्यात् । अशरीरश्चेत् किं पिशाचादिबददृश्य इति ? तच्चेत्तइकिञ्चित्कर एव । अतो अनीश्वरं जगत् स्वस्वकर्मविपाकप्रादुर्भूतप्रभूतपुनर्भवत्वादिति सिद्धम् । दत्तः कर्तृवादाय जलाञ्जलि. । तत्र नैयायिका जटाधरविशेषा अक्षपादा. कर्तृवादिन । उर्वी-पर्वत-तर्वादिकं बुद्धिमद्धेतुकम् , कार्यत्वादिति । कार्य घटादि । कारणं त्रेधा समवायकारणम्, असमवायकारणं निमित्तकारणं च । समवायकारणं मृदादि । असमवायकारणं सूत्रखण्ड-दण्ड-चक्र-चीवरकुलालादि । निमित्तकारणं हीश्वर एव । "ईश्वरप्रेरितो गच्छेत् स्वर्ग वा श्वभ्रमेव वा । अज्ञो जन्तुरनीशोऽयमात्मनः सुख-दुःखयो. ॥" [महाभारत वन०३०.२८] इति । "सुखमात्यन्तिकं यत् तद् बुद्विग्राह्यमतीन्द्रियम् । तं वै मोक्ष विजानीयाद् दुष्प्रापमकृतात्मभिः ॥" [ ] "आनन्दं ब्रह्मणो रूपं तच्च मोक्षेऽमिव्यज्यते ।" [ ] प्रत्यक्षमनुमानमागम इति प्रमाणत्रयम् । प्रतिज्ञा-हेतूदाहरणोपनय-निगमनान्यवयवाः पञ्चावयववाक्यम् । पृथिव्यप्तेजोवाय्वाकाशकालढिगात्ममनांसीति नव द्रव्याणि । प्रमाण-प्रेमेयसंशय-प्रयोजन-दृष्टान्त-सिद्धान्तावयव-तर्क-निर्णय-बाद-जल्प-वितण्डा--हेत्वाभास-उलजाति-निग्रहस्थानानां पोडनतत्त्वानां तत्त्वज्ञानानि.श्रेयसाधिगम इति । पोदा सम्बन्धसन्निकर्षप्रमाणवादिनो नयायिका.।

Loading...

Page Navigation
1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193