Book Title: Collection Of Jaina Philosophical Tracts
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad
________________
प्रमाणसारः। तथा मेचकवस्तुष्वपि द्वयं नै विरुद्धम् , सेत्प्रमाणप्रसिद्धेरिति । '
एकान्तनित्यो भावः कथं कार्यकारणतामश्नुते।। एका कारणावस्थाऽपरा कार्यावस्था । कारणं त्रेधा समवायकारणम् , असमवायकारणम् , निमित्तकारणं चेति । प्राप्तानां प्राप्तिः समवायः, यथा घटे रक्तत्वादिरूपसमवायः । अप्राप्तानां प्राप्तिः संयोगः, यथा 'इह कुण्डे बदराणि' ।
तत्र 'समवायकारण घटोत्पत्ती मृदादि, पटोत्पत्तौ तन्तवः ।। असमवायकारणं सूत्रम्बण्ड-दण्ड-चक्र-चीवरादि घटोत्पत्ती, पटोत्पत्तौ तुरीवेमादि । निमित्तकारण कुलालादि [घटे], पटे कुविन्द इति । अत्र कारणे कार्योपचारात् कारणं मृदादि कार्य घटादि । कारणस्य कार्य चेत् तदनित्यतापत्तिः । यत् कृतकं तदनित्यम् । तुल्यकालत्वे युगपच्चेत् किं कस्य कारणं किं' कस्य कार्यमुभयोस्तुल्यकालत्वादमुल्योरिवः । एकान्तानित्यपक्षोऽपि क्षणक्षयित्वात् कथं कार्यकारणभावमासादयति । कारणापलापे कार्यमेवास्तीति चेत् तदुदितः यो यदनन्तरः कारणापेक्षयां कार्यम् ।। कार्य कारणमन्वेषयति । क्षणिकत्वे तावत् कारणं कार्यं यावन्न प्रतीक्षते ।।' सौगतमते कारणमसत् कार्यमप्यसत् । 'कारणे विलीनेः कार्य कमधिकृत्य प्रवर्तते । कार्य तु कारणाधीनमेव । कारणाभावे- कस्य कार्यमिति । क्रियत इति, कार्यम् । अपेक्षितपरल्यापारो हि भावः स्वा(स्वो)त्पत्तौ कृतक इत्युच्यते । सापेक्षमसमर्थम् । कारणापेक्षं हि कार्यम् । कार्यकारणत्वे चार्थक्रियाकारित्वम् । तर्हे ()वं कार्य पर्यायरूपमनित्यम् । कारणं द्रव्यरूपं नित्यम् । अथेत्थमायनेकान्तमतं प्रसिद्धिसमाधिसौधमध्यमध्यास्ते ॥
तथा चैकान्तनित्यानित्ययोः का गतिः १ एकान्तनित्यवादी सांख्योऽनित्यपक्षे दोषलक्षमाख्याय प्रतिपक्षं सौगतमाक्ष(क्षि)पति नित्यपक्षगुणांश्च प्रकाशयति । एकान्तानित्यवादी बौद्धोऽपि स्वपक्षं सगुणं जल्पन्नेकान्तनित्यपक्षं सदोषं प्रतिजानानः सांख्यं पराकुरुते । तदेव(वं) कण्टकेषु परस्परध्वंसिषु सोऽयं नित्यानित्यगुणवाननेकान्तः परभाग' सर्वोत्कर्षेण वर्तते । एवं सति ह्यनन्तधर्मात्मकता प्रणिगधमाना हृद्यैव ॥ तथाहि। पयोव्रतो न दध्यत्ति न पयोऽत्ति दधिवतः ।
अगोरसवतो नोभे तस्माद्वस्तु त्रयात्मकम् ॥ घटमौलिसुवर्णार्थी नाशोत्पादस्थितिष्वयम् । शोकप्रमोदमाध्यस्थ्यं जनो याति सहेतुकम् ॥ [आप्तमीमांसा ५९-६०]
Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193