Book Title: Collection Of Jaina Philosophical Tracts
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 142
________________ श्रीमुनीश्वरसूरिनिबद्धः प्रध्वस्ते कलशे शुशोच तनया मौलौ समुत्पादिते पुत्रः प्रीतिमवाप कामपि नृपः शिश्राय मध्यस्थताम् । पूर्वाकारपरिक्षयस्तदपराकारोदयस्तद्वयाधारश्चैक इति स्थितं त्रयमयं तत्त्वं तथाप्रत्ययात् ।। [स्याद्वादमुक्तावली १. १८] अपि च-स्याद्वादः प्रमाणस्वरूपम् । स्यादित्यव्ययमनेकान्तद्योतकम् । स्याता उपलक्षितः सदसन्नित्यानित्या]भिलाप्यानमिलाप्यो वादः स्याद्वादः । तत्रायं(त्रय) सप्तभङ्गी-स्यादस्त्येव सर्वमिति विधिकल्पनया प्रथमो भङ्गः । स्यान्नास्त्येव सर्वमिति निषेधकल्पनया द्वितीयो भङ्गः । स्यादस्त्येव स्यान्नास्त्येवेति क्रमतो विधिनिषेधकल्पनया तृतीयो भङ्गः। स्यादवक्तव्यमेवेति युगपद्विधिनिषेधकल्पनया चतुर्थो भङ्गः । स्यादस्त्येव स्यादवक्तव्यमिति विधिकल्पनया युगपद्विधिनिषेधकल्पनया च पञ्चमो भङ्गः । स्यान्नास्त्येव स्यादवक्तव्यमिति निषेधकल्पनया युगपविधिनिषेधकल्पनया च षष्ठो भङ्गः । स्यादस्त्येव स्यान्नास्त्येव स्यादवक्तव्यमिति क्रमतो विधिनिषेधकल्पनया युगपद्विधिनिषेधकल्पनया च सप्तमो भङ्गः । या प्रश्नाद्विधिपर्युदासभिदया बाधच्युता सप्तधा धर्म धर्ममपेक्ष्य वाक्यरचनाऽनेकात्मके वस्तुनि । निर्दोषा निरदेशि देव ! भवता सा सप्तभङ्गी यया जल्पन् जल्परणाङ्गणे विजयते वादी विपक्ष क्षणात् ।। ग्रन्थगौरवभयादāतावदुक्तम् । विस्तरतः स्याद्वादरत्नाकरादवसेयम् । इति प्रमाणसारे प्रमाणस्वरूपप्ररूपकः स्वोपज्ञः प्रथमादर्शः अथ प्रमाणस्वरूपविप्रतिपत्तिहेतुं प्रदर्श्य प्रमाणसङ्खयाविप्रतिपत(त्ति)मुस(मुदस्य)न्ति । अथानेकान्तमतप्रामाण्यमभ्युपगम्य जितकाशी प्रत्युत प्रत्यवस्थानपुरस्सरं परप्रतिवादिनं प्रतिवादी जैनः प्रतिजानीते-'ननु भो वादिन् । प्राश्निः क्रियताम्' । परः --'कियन्ति प्रमाणनि' १ इत्युक्ते जैनः --- 'जिज्ञासाविष्करण प्रश्न इति । झातुमिच्छा जिज्ञासा । अत्र ज्ञाते सति पृच्छाऽज्ञाते वा ? सुनिश्चिताशेपपदार्थपरमार्थस्य किमर्थं पृच्छा । अज्ञाते वा कः कृती कर्ममर्मविनाकृतेन वृथाप्रलापिना सम्यग्वाग्जन्मवैफल्यं नाटयति' । पर.- 'मैवं भवदभिमतं मतं

Loading...

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193