Book Title: Collection Of Jaina Philosophical Tracts
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad
________________
प्रमाणसारः। सामान्यरहिता विशेषा मा(म)ण्डूकजटाभारानुकाराः। विशेषरहितं सामान्यमपि तदवस्थम् । तदिति सामान्यविशेषाद्यनेकात्मकं वस्तु प्रमेयमनुगतविशिष्टाकारप्रतीतिविषयत्वात् पूर्वापरा]कारपरित्यागोपादानस्वरूपपरिणामेनार्थक्रियाकारित्वाच्च सिद्धम् । सामान्यपक्षवादिनो मीमांसकाः सामान्यतोऽर्थक्रियां कुर्युः । विशेपवादिनो बौद्धाः विशेषानेव प्रमाणयन्ति सामान्यं पराकुर्वन्ति । जैनास्त्ववियुतसामान्यविशेषस्वरूपवादिनः ।
___ अथ तत्त्वमनन्तधर्मात्मकमेव सत्त्वान्यथानुपपत्तेरिति । एकान्तपक्षोऽपि न क्षोदक्षमः । उत्पाव्ययध्रौव्ययुक्त सत्' । तावदेकान्तनित्यस्य सत्त्वस्यात्मादे[:] सुखदुःखोपभोगः कथम् ? एका सुखावस्थाऽपरा दुःखावस्था । न हि गुणो गुणिनमतिरिच्य क्वचन केवलोऽवलोकितः । अवस्थाभेदेऽवश्यमवस्थावतोऽपि भेदः स्यात् । अयमेव हि भेदो भेदहेतुर्वा यद्विरुद्धधर्माध्यासः कारणभेदश्चेति । स्वभाव एव हि कारणमनित्यतायाः । तद्देवमेकान्तनित्यात्मनोऽनित्य[ता] एव प्रत्युत भवितुमर्हति । लाभमिच्छतो मूलक्षतिरेवैवम् । गेहे नर्दितया स्वगृह एव प्रणिगद्यमानं हृद्यं न तु प्रामाणिकप्रकाण्डपर्षदि ।
__एकान्ताऽनित्यस्यात्मनस्तावत् कृतकर्मनाशोऽकृतकर्मोपभोगश्च । येनाऽनित्यात्मना सुकृतं कृतं स काकनाशं नष्टः क्षणान्तरे सान्वयविनाशेन वासनां दत्त्वा, अलक्तद्रवभावितबीजे कर्पासे रक्तता यथा, दग्धे रामठे परिमलो यथा। तथा चामनन्ति अपर एवात्माऽवतातरीति । तथा सति प्राक्कृतोपभोगोऽपरस्य कथंकारं प्राग्भवे स्मारं स्मारं दत्तमादत्ते । कथमिति ? येनानित्यात्मनाऽसुकृतं कृतं स तावच्चौरंकारं पलायितः परकृतं कोऽयमपरः सम्बन्धविनाकृतो लभते । 'यः सापराधः स एव दण्ड्यः ' अत्र न तु [स] माव्यो (न्यो ?) न्यायः । क्षणान्तरोत्पन्न आत्मा स्वकृतमेवोपभुङ्क्ते न तु परकृतम् । अथ यत् तदस्तु नाम । अनित्यात्मगता सा वासनाऽऽत्मनो भिन्नाऽभिन्ना वा । भिन्ना चेत् कथं तस्येति सा । अभिन्ना चेत् साऽनित्या नित्या वा ? नित्या चेत् स्वपदे कुठारप्रहारः प्रतिज्ञाहानिर्नाम निग्रहस्थानम् । अनित्या चेत् सा कौतस्कुती सहैवात्मना वराकी काकीव करतालीभिस्नातैव । अथ क्षणिकात्मा सान्वयं निरन्वयं वा विनश्यति १ सान्वयं चेत् तर्हि समूलकाषं कषित एव । द्वारिकादाहसन्देशार्पकसदेवत् तत्र न कोऽपि क्षणान्तरभावी । सोऽयं ताथागतधर्मकीर्तेः पन्था दुस्तरः । का गतिस्तावदस्य ?
१. तत्त्वार्थसूत्र ५.३० । २ प्र. वा. स्वोपज्ञवृत्ति पृ० १३ । १५
Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193