________________
११२
श्रीमुनीश्वरसूरिनिवद्धः
तर्हि खड्गाग्निमोदकोच्चारणे वदनस्य छेद- दाह - पूरणादिप्रसक्तिः । अथ द्वये कत्वं कथम् शब्दस्तु कर्णकोटरावलम्बी साक्षात् क्षितितलमिलितकुम्भस्तम्भाम्भोरुहादिभावरागिरित्यतस्तावत् तादात्म्यपक्षोऽपि न क्षेमकारः ।
१
तदुत्पत्तिरपि । शब्दादर्थ उन्मज्जेदर्थाद्वा शब्दः । शब्दादर्थश्चेत् तर्हि घटशब्दोच्चारणे [स]ति जलाssहरणक्रिया सिद्धैव को नाम सूत्र - प ( ख ) ण्ड - दण्ड-चक्रचीवरादिकारणमीलन क्लेशमाश्रयेदिति । वाक्यतः प्रयोजनं सिद्धम् । द्वितीयभिटाया तु अर्थाद्वा शब्दः । स तु ताल्वोष्ठपुटादिव्यापा [ रा ] देव दृष्टः, न तु कलशादेः ।
वाच्यवाचकभावोऽपि तदवस्थो व्यवस्थादौस्थ्यस्येमानमास्तिघ्नुते । किं वाच्यवाचकयोर्भेदो वाऽभेदो वा भेदाभेदो वा ? भेदश्चेत् तन्नियमितार्थग्रहणाभावादसम्बद्धताळूतालता लालग्यात् । अभेदे कथं साक्षात् शब्दार्थावुपलभ्येते तदित्ययुक्तिबन्धकीसम्पर्कतोऽस्पृश्य एवायं पक्षः । भेदाभेदपक्षश्चेत् पर्यायान्तरे कथञ्चिदविम्वग्भावात्मकः सम्बन्ध एवाङ्गीकृतः सुधा (घी) मद्भि [ ] | तदिति तटादर्शिशकुन्तपोतन्यायाज्जिनो क्तिष्वेव विश्रामः ॥
अर्थोपलब्धौ सन्निकर्षादेः प्रामाण्यमामनन्ति वैशेषिकाः । अदग्धदहनन्यायेन तान् प्रत्याचक्ष्महि । न वै सन्निकर्षादेरज्ञानस्य प्रामाण्यमुपपन्नम् । तस्यार्थान्तरस्येव स्वार्थव्यवसितौ साधकतमत्वानुपपत्तेः । न ह्यचेतनस्तम्भः स्तम्भान्तरं निश्चिनोति । न हीन्द्रियवदञ्जनभोजनादेः सन्निकर्षादर्थान्तरज्ञानं सजाघटीति । द्रव्येन्द्रियं तु भावेन्द्रियाधीनम् । भावेन्द्रिय ह्यात्मज्ञानमेव युक्त्यन्तरेण स्वीकृतं स्यादिति फलितार्थः । अपि च
अर्थस्य प्रमितो प्रसाधनपटु प्रोचुः प्रमाणं परे तेषामञ्जन भोजनाद्यपि भवेद् वस्तु प्रमाणं स्फुटम् । आसन्नस्य तु मानतां यदि तदा संवेदनस्यैव सा स्यादित्यन्धभुजङ्गरन्नगमिव तीयैः श्रितं त्वन्मतम् ॥ [
1
अत्यन्तव्यावृत्तानां पिण्डानां यत. कारणादन्योऽन्यस्वरूपानुगमः प्रतीयते तदनुवृत्तिप्रत्ययहेतु सामान्यम् । एकाकारा प्रतीतिरेकशब्दवाच्यता चानुवृत्तिः सर्वत्र गोत्वं गोत्वमिति । भावाः सामान्यविशेषात्मकाः स्वभावसामग्रीतः स्वत एव सामान्यविशेषात्मका' स्यु । घटे घटत्वमिति सामान्यम् । तदाश्रयाः सङ्ख्या-वर्णपरिमाणादयो विशेषाः ।
निर्विशेषं हि सामान्यं भवेत् खरविषाणवत् ।
सामान्यरहितत्वेन विशेषास्तद्वदेव हि ॥ [श्लो० वा० आकृति १०]