________________
प्रमाणसारः।
१११ , - तदिदं विवाद(दा)स्पदीभूतमदुष्टं सिद्धं प्रमाणस्वरूपम् । ततो उत्पद्य ज्ञानं किं गृह्णीयात् । यत्तावदुक्तं प्रमोयते वस्तुतत्त्वाथोऽनेनेति । तत् सामान्यविशेषाद्यनेकात्मकं वस्तु । पूर्वापरपरिणामसाधारणं द्रव्यं सामान्यम् । तदाश्रया विशेषाः । गुणपर्यायवद् द्रव्यम्' । यथाऽऽत्मनि ज्ञानाम् । सहभावी गुण' । क्रमभावी पर्यायः । गुणः कथम् ? यथा आत्मा द्रव्यम्, ज्ञानं गुणः । पर्यायः कथम् ? यथाऽऽत्मनि नरनारक-तिर्यक्त्वादिः । . द्रव्यं पर्यायवियुतं पर्याया द्रव्यवर्जिताः ।
क्व] कदा केन संदृष्टा दृष्टा मानेन केन वा ॥ [ ]
द्रव्यापेक्षया सर्वे भावा नित्याः । पर्यायापेक्षया सर्वेऽनित्याः । उत्पादव्ययध्रौव्यात्मकं सत् । तद्रावाऽव्ययं नित्यम् । आदीपमाव्योम नित्यानित्यम् । मानाधीना मेयसिद्धिः । प्रमेयं प्रमाणसिद्धमिति । कथमिति ? परे गिरं सङ्गिरन्ते ।
अयुतसिद्धानामाधार्याधारभूतानामिहप्रत्ययहेतुः सम्वन्धः स समवायः । यथा शिलातलशकलयुगलानुसधायकं तार्तीयकतया रालादिद्रव्यम् । तथेन्द्रियार्थज्ञानसम्बन्धी इहप्रत्ययो विशेपणभावात्मकः । इहभूतले घटोऽस्ति । इह भूतले घटो नास्ति । शुक्लरूपं कृष्णरूपशून्यम् इह शुक्लरूपे कृष्णरूपं नास्ति । गृह्यते येन यद्भावस्तदभावस्तेन गृह्यते । तदपरे प्राहु
इन्द्रियेण परिच्छिन्ने रूपादौ यदनन्तरम् । तद्रूपादिस्ततस्तस्य मनोज्ञानं प्रवर्तते ॥
आत्मा मनसा संयुज्यते, मन इन्द्रियेण, इन्द्रियमर्थेनेति । शब्दार्थज्ञानं च वाच्यवाचकभावसम्बन्धात् । वान्योऽर्थः । वाचकः शब्दः । स्वाभाविकसङ्केतितशब्दग्रहणान्नियमितार्थस्यैव ग्रहणं किम् १-पृथुवुध्नोदराद्याकारवानर्थक्रियाकारि(री) दासीशिरसि चेष्टत इति घटः। घट इत्युक्ते तरङ्गशृङ्गभृङ्गशृङ्गारभृङ्गारादिषु घट एवादीयते न तु पटः।
नात्र सम्बन्धमावो वक्तुं युक्तः । अथ तदयं शब्दार्थयोर्मवस्तादात्म्यं तदुत्पत्तिर्वाच्यवाचकभावो वा । प्राचिपक्षे स एवात्मा यस्येति शब्दार्थद्वये ह्येकत्वमेव, सर्वभावानां शब्दरूपता वाऽर्थरूपता वा । यदि शब्दरूपता तर्हि भावानां स्वस्ववाचकत्वस्वभावानां युगपत् सर्वदा गुमगुमायमानताप : सङ्गीतकारम्भनिमृतमिव त्रिभुवनं चकास्यात् । पटशब्दोच्चारणत एवावरणक्रिया प्रसज्येत । भावानामर्थरूपतैव चेत् ... १. तत्वार्थमन्त्र ५.३८ ।, २ तत्त्वार्थसूत्र ५३० । ३ तत्त्वार्थसूत्र ५.३१ ।