________________
११०
श्र मुनीश्वरसूरिनिवद्धः जितं जितं वाद्यतां मित्र झल्लरी । अलमलं गल्लझल्लरीझात्कारेण । किं वंहीयाननेहा नीरसो निरस्यते । उत्तिष्ठोत्तिष्ठाप्रामाणिक ! प्रामाणिकमण्डलीतः । प्रकृतं महे महेच्छास्तावदनुष्ठीयते प्रमाणगोष्ठी ।
__ अविज्ञाततत्त्वेऽर्थे कारणोपपत्तितस्तत्त्वज्ञानार्थमूहस्तर्कः प्रमाणाङ्गम् । सशयादिव्युदासविशदं प्रमाणपदमासाद्य तत्त्वज्ञानार्थी कारणोपपत्ती गयते । भावा अविज्ञातपरमार्था अवान्तरभेदकारणज्ञानेन निर्णीतार्थाः स्युः । मानाधीना मेयसिद्धिर्मानसिद्धिश्च लक्षणात् । प्रमाणमिति साकाक्षा(क्ष) वचनम् । तत्र मानसिद्धिश्च लक्षणात् ।
तत्र लक्षणं द्वेधा - सामान्यलक्षणं विशेषलक्षणं च । तत्र स्वपरजातीयव्यावर्तको धर्मो लक्षणमसाधारणमेव । पटात् घटस्वरूपं व्यावर्तयति घटात् पटस्वरपमिति स्वपरजातीयव्यावृत्तिः । लक्षणे त्रीणि दूषणानि-अव्यापकत्वम्, अतिव्यापकत्वम् असम्भवित्वं चेति । स्वपक्षमपि न व्याप्नोत्यव्यापकम् । यथा ब्राह्मणश्चतुर्वेदाभिज्ञः, व्रात्येनानैकान्तिकत्वात् । स्वपरपक्षसिद्धौ समत्वेऽतिव्यापकत्वम् । यथा यज्ञोपवीतधारी ब्राह्मण, भत्रियादावतिव्याप्तिः । ब्राह्मणेन सुरा पेया द्रवद्रव्यत्वात् क्षीरवदित्यसम्भवित्वं चेति । ।
इह हि न्यायशास्त्रे चतुर्धा प्रवृत्तिरस्ति-उद्देशो लक्षणं परीक्षा विभागाचेति । उद्देश' किमुच्यते ? नाम्ना पदार्थानां संक्षेपेणाभिधानमुद्देशः । उद्दिष्टस्वपरजातीयव्यावर्तको धर्मो : लक्षणम् । लक्षितस्य यथाक्रमं विचारः परीक्षा । परीक्षितस्यावान्तरभेदप्रकटनं विभागः । ततः प्राक् सूत्रे प्रमाणस्वरूपादुद्देशः कृतः । ततो 'यथोद्देशं निर्देश' इति न्यायमाश्रित्य चतुर्धा विप्रतिपत्तौ प्राक् प्रमाणस्वरूपमाह-~'स्वपरव्यवसायि ज्ञानं प्रमाणम्' । स्वं आत्मा ज्ञानस्य स्वरूपम् । परः स्वस्मादन्योऽर्थ इति यावत् । तौ विशेषेण यथावस्थितस्वरूपेणाचेतनस्य सन्निकर्षादेः पराकरणेनावस्यति निश्चिनोतीत्येव शील यज्ज्ञानं स्वपरव्यवसायि प्रमाणमिति सामान्यलक्षणम् । ततो ज्ञानमेवैतत् । ज्ञानस्यैको ह्युत्पत्तिक्षणो द्वितीयो ज्ञप्तिक्षण । ज्ञानस्य प्रामाण्यमप्रामाण्यं च । अवग्रहेहादिभिरासन्नदशायां घटादिज्ञानोत्पत्तिक्षणे प्रमेयाव्यभिचारित्वं प्रामाण्यं परतः । अनभ्यासदशायां तु सानुमति धूमवत्त्वाद्गोपालघट्यादौ सदोषवह्निमत्त्वज्ञानोत्पत्तिक्षण अप्रामाण्यं परत एव, ज्ञप्तिक्षणे तु ज्ञानस्य प्रामाण्यं सवादकज्ञानतः परत' प्रादुर्भवति । ज्ञप्तिक्षणे तु वाधकज्ञानतोऽनासन्नदशायामप्रामाण्यमपि परत इति ॥