________________
श्रीमुनीश्वरसरिनिवद्धः
॥प्रमाणसारः॥ ब्रूमः श्रिये तं वरिवस्य सावं रहस्यमुद्दिश्य विशेषदृष्टीन् । स्पष्टाष्टकर्मप्रकृतीर्विजित्य जग्राह योऽनन्तचतुष्टयं प्राक् ।। तर्कान्तविद्याः समवेक्ष्य जैनतीर्थान्यपि क्षोणिभुजां सभाश्च । स्वान्तं यदा शान्तरसान्तरासीन्मुदा तदाऽयं विहितोऽस्ति गुम्फः ॥ अजिह्मवाग्ब्रह्मवशात् प्रमाणसारप्रबोधाख्यमधीत्य गुम्फम् । अखर्वगर्वान् प्रतिवादिविद्यामुद्रार्थिनो दिग्विजये जयन्तु । रहस्यं प्रोक्तुकामस्य प्रमाणस्योपदर्शनम् ।
सागरं गन्तुकामस्य हिमवद्गमनोपमम् ।।
ननु सम्बन्धाभिधेयप्रयोजनवत्प्रकरणकरणं स्यात् । इह ज्वरप्रसरापसारिशेषशिरोरत्नोपदेशवदशक्यानुष्ठानाभिधेयं 'दशदाडिमानि घडप्पाः कुण्डमजाजिनम्' इति सम्बन्धवन्ध्यं च जनन्या[:] पाणिपीडनोपदेशवदनभिमतप्रयोजनं स्यात् । तत्र प्रेक्षाचक्षुषः क्षोदिष्टामपि प्रवृत्ति न प्रारभन्ते । तदिह प्रमाणसारावबोधे निखिलं सिद्धम् । तदिदमाकिमेतकन्न [१] । अविज्ञाततत्त्वेऽर्थे कारणोपपत्तितस्तत्वज्ञानार्थमूहस्तर्को रहस्यज्ञान प्रमाणमिति, प्रमाणेन चरन्तीति प्रामाणिकाः, तेषां प्रामाणिकानां चतस्रो विप्रतिपत्तयो भवन्ति प्रमाणस्य स्वरूप-सङ्ख्याफल-विषयलक्षणाः । तत्र प्रमाणस्वरूपमिति आदितः । अत्र साकादं वचनं प्रमाणम् । प्रमिणोतीति प्रमाता आत्मा वा, प्रमाणं न, साधकत्वात् कर्तृत्वाच्च । प्रमीयते योऽर्थः प्रमेयं वा, प्रमाण न, साध्यत्वादस्य कर्मपदत्वाच्च । प्रमातीति प्रमा सम्यगनुभव एव वा, प्रमाण न, प्रमा-प्रमाणयोर्महान् भेदः, प्रमायाः कार्यरूपत्वात् , [प्रमाणस्य] तावत् करणस्य कारणरूपत्वादिति । अथ घटमहमात्मना वेद्मीति - अहमित्यात्मा ज्ञाता कर्ता, घटमिति ज्ञेयं कर्म, वेनीति फलं क्रिया । केन ? आत्मना ज्ञानेन(ने)[ति] करणव्युत्पत्तेश्च कर्तृ-कर्मविलक्षणं तद्वेदितव्यं प्रमाणम् ।