Book Title: Collection Of Jaina Philosophical Tracts
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 133
________________ हेतुखण्डन पाण्डित्यम् । १४ तथा विरुद्धोद्धरदुर्भगस्य सङ्गं नं सङ्गच्छति लेशतोऽसौ । सुनिश्चितं सम्प्रति यद्विपक्षव्यावृत्तिमेषोऽत्र बिभर्ति हेतुः ॥ तथाप्यनैकान्तिककुञ्जरेण न दृश्यते हेतुमृगाधिराजः । नासौ यतः शात्रवपक्षकक्षां शतांशतोऽपि क्षमते कदाचित् ॥ C एवं च प्रतिपक्षपराजयो भवतीति ज्ञेयम् । अत एव पूर्वमेव पधैर्यद्यभ्यासः कृतः स्यात् तदा व्यामोहो न भवति वुद्धिप्रकाशप्रागल्भ्यक्षोभाभावमनःप्रसत्यादयो गुणा भवन्ति इति तत्त्वम् । एवं च प्रतिपक्षपराजयाज्जिनशासनप्रभावसम्यक्त्वशुद्धिसुलभबोधिवीजभवनादिना क्रमेण मोक्षप्राप्तिरिति तत्त्वम् । + श्रीमत्तपोगणनभोऽङ्गणभासनैक भानूपमाः परमतापिमहः समूहाः । शश्वन्नभोगरुचयः शुचयस्तपोभिः श्रीसोमसुन्दरगुरुप्रवरा बभूवुः ॥ तेषां सन्ततिगणपतिलक्ष्मीलीलाविलासगोविन्दाः | श्री मल्लक्ष्मीसागरगुरवो गोपीवरा रेजुः ॥ यत्कृष्णवर्त्माव्यभिचारिधूमा - १०५ नुमानसम्यग् (क्) समुदीरितं तत् । अकृष्णवर्त्मापि विशिष्टधूमो - ज्ज्वलच्छविर्यद् यशसां समूहः ॥ तत्पट्टोदय भूधरसहस्रकरसोदरा युगप्रवराः । श्रीसुमतिसाधुसूरीश्वरा जयन्त्यसमतममहसः ॥ हृत्कुण्डान्तरमण्डितोज्ज्वलतरध्यानाग्निना यैः स्फुरत्कामः श्यामतनुर्व्यधायि सहसा नष्टोऽथ दुष्टोऽसकौ । तापाक्रान्ततनुः सुधामयतनुं शिश्राय शीतद्युतिं तस्मिन् श्यामललाञ्छनच्छविमिषादद्याप्ययं वीक्ष्यते ॥

Loading...

Page Navigation
1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193