________________
हेतुखण्डन पाण्डित्यम् ।
१४
तथा विरुद्धोद्धरदुर्भगस्य
सङ्गं नं सङ्गच्छति लेशतोऽसौ । सुनिश्चितं सम्प्रति यद्विपक्षव्यावृत्तिमेषोऽत्र बिभर्ति हेतुः ॥ तथाप्यनैकान्तिककुञ्जरेण न दृश्यते हेतुमृगाधिराजः । नासौ यतः शात्रवपक्षकक्षां शतांशतोऽपि क्षमते कदाचित् ॥
C
एवं च प्रतिपक्षपराजयो भवतीति ज्ञेयम् । अत एव पूर्वमेव पधैर्यद्यभ्यासः कृतः स्यात् तदा व्यामोहो न भवति वुद्धिप्रकाशप्रागल्भ्यक्षोभाभावमनःप्रसत्यादयो गुणा भवन्ति इति तत्त्वम् । एवं च प्रतिपक्षपराजयाज्जिनशासनप्रभावसम्यक्त्वशुद्धिसुलभबोधिवीजभवनादिना क्रमेण मोक्षप्राप्तिरिति तत्त्वम् ।
+
श्रीमत्तपोगणनभोऽङ्गणभासनैक
भानूपमाः परमतापिमहः समूहाः । शश्वन्नभोगरुचयः शुचयस्तपोभिः श्रीसोमसुन्दरगुरुप्रवरा बभूवुः ॥
तेषां सन्ततिगणपतिलक्ष्मीलीलाविलासगोविन्दाः | श्री मल्लक्ष्मीसागरगुरवो गोपीवरा रेजुः ॥
यत्कृष्णवर्त्माव्यभिचारिधूमा
-
१०५
नुमानसम्यग् (क्) समुदीरितं तत् । अकृष्णवर्त्मापि विशिष्टधूमो -
ज्ज्वलच्छविर्यद् यशसां समूहः ॥ तत्पट्टोदय भूधरसहस्रकरसोदरा युगप्रवराः । श्रीसुमतिसाधुसूरीश्वरा जयन्त्यसमतममहसः ॥ हृत्कुण्डान्तरमण्डितोज्ज्वलतरध्यानाग्निना यैः स्फुरत्कामः श्यामतनुर्व्यधायि सहसा नष्टोऽथ दुष्टोऽसकौ । तापाक्रान्ततनुः सुधामयतनुं शिश्राय शीतद्युतिं तस्मिन् श्यामललाञ्छनच्छविमिषादद्याप्ययं वीक्ष्यते ॥