Book Title: Collection Of Jaina Philosophical Tracts
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 135
________________ श्रीमुनीश्वरसरिनिवद्धः ॥प्रमाणसारः॥ ब्रूमः श्रिये तं वरिवस्य सावं रहस्यमुद्दिश्य विशेषदृष्टीन् । स्पष्टाष्टकर्मप्रकृतीर्विजित्य जग्राह योऽनन्तचतुष्टयं प्राक् ।। तर्कान्तविद्याः समवेक्ष्य जैनतीर्थान्यपि क्षोणिभुजां सभाश्च । स्वान्तं यदा शान्तरसान्तरासीन्मुदा तदाऽयं विहितोऽस्ति गुम्फः ॥ अजिह्मवाग्ब्रह्मवशात् प्रमाणसारप्रबोधाख्यमधीत्य गुम्फम् । अखर्वगर्वान् प्रतिवादिविद्यामुद्रार्थिनो दिग्विजये जयन्तु । रहस्यं प्रोक्तुकामस्य प्रमाणस्योपदर्शनम् । सागरं गन्तुकामस्य हिमवद्गमनोपमम् ।। ननु सम्बन्धाभिधेयप्रयोजनवत्प्रकरणकरणं स्यात् । इह ज्वरप्रसरापसारिशेषशिरोरत्नोपदेशवदशक्यानुष्ठानाभिधेयं 'दशदाडिमानि घडप्पाः कुण्डमजाजिनम्' इति सम्बन्धवन्ध्यं च जनन्या[:] पाणिपीडनोपदेशवदनभिमतप्रयोजनं स्यात् । तत्र प्रेक्षाचक्षुषः क्षोदिष्टामपि प्रवृत्ति न प्रारभन्ते । तदिह प्रमाणसारावबोधे निखिलं सिद्धम् । तदिदमाकिमेतकन्न [१] । अविज्ञाततत्त्वेऽर्थे कारणोपपत्तितस्तत्वज्ञानार्थमूहस्तर्को रहस्यज्ञान प्रमाणमिति, प्रमाणेन चरन्तीति प्रामाणिकाः, तेषां प्रामाणिकानां चतस्रो विप्रतिपत्तयो भवन्ति प्रमाणस्य स्वरूप-सङ्ख्याफल-विषयलक्षणाः । तत्र प्रमाणस्वरूपमिति आदितः । अत्र साकादं वचनं प्रमाणम् । प्रमिणोतीति प्रमाता आत्मा वा, प्रमाणं न, साधकत्वात् कर्तृत्वाच्च । प्रमीयते योऽर्थः प्रमेयं वा, प्रमाण न, साध्यत्वादस्य कर्मपदत्वाच्च । प्रमातीति प्रमा सम्यगनुभव एव वा, प्रमाण न, प्रमा-प्रमाणयोर्महान् भेदः, प्रमायाः कार्यरूपत्वात् , [प्रमाणस्य] तावत् करणस्य कारणरूपत्वादिति । अथ घटमहमात्मना वेद्मीति - अहमित्यात्मा ज्ञाता कर्ता, घटमिति ज्ञेयं कर्म, वेनीति फलं क्रिया । केन ? आत्मना ज्ञानेन(ने)[ति] करणव्युत्पत्तेश्च कर्तृ-कर्मविलक्षणं तद्वेदितव्यं प्रमाणम् ।

Loading...

Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193