Book Title: Collection Of Jaina Philosophical Tracts
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 126
________________ साधुविजयनिवद्धम् णिकसुखाववोधाय पूर्वदर्शितानुमान एव दर्श्यते । 'वेदविहिता हिंसा अधर्मसाधनम्, हिसात्वात् ब्राह्मणहिंसावत्' इत्यत्र साध्यव्यापकत्वं यथा यत्राधर्मसाधनत्वं तत्र पक्षेतरत्वम् । पक्षातिरिक्तव्यर्थहिंसादौ सर्वत्र भावात् । यत्र यत्र हिंसात्वं तत्र तत्र पक्षेतरत्वमिति नास्ति पक्ष एव हिंसात्वेन, पक्षातिरिक्तत्वाभावादिति माधनाव्यापकवादतिव्याप्तिः । ____ ननु न पक्षेतरोषाधेः साध्यव्यापकत्वं निश्चितम् । पक्षे साध्यसन्देहेऽपि उपाध्यभावस्य निश्चितत्वेन साध्यं प्रत्यन्वयव्यतिरेकव्याप्त्यभावात् । तथाहि यत् पक्षेतरत् तदधर्मसाधनमिति नास्ति देवपूजनब्राह्मणभोजनादौ पक्षेतरत्वादधर्मसाधकत्वं स्यात् । व्यतिरेकस्त्वेवम्-यत् पक्षेतरन्न भवति तदधर्मसाधनमपि न भवति पक्षातिरिक्तस्यान्यस्याभावात् । पक्षे त्वद्याप्यसिद्धत्वादिति । मैवम् । तथा सति पक्षे साध्यसन्देहेऽपि साधनसद्भावनिश्चयेन हेतोः शङ्कितव्यभिचारित्वं स्यादेव तथा च सर्वानुमानोच्छेदापत्ति. । तर्हि पक्षेतरोपाधिव्युदासाय साध्यसमन्यातिरिति पदं गृहीमः । तथापि तत्रैवातिव्याप्तेः यथा 'शब्दोऽभिधेयः प्रमेयत्वाद् घटवत्' इत्यत्र पक्षे साध्यव्यापकत्वनिश्चयादन्वयव्यतिरेकसम्भवात् । यथा 'यदभिधेयं तत् पक्षेतरत् , यत् पक्षेतरत् तदभिधेयम् । उभयस्य घटादौ सर्वत्र भावात् । यत् पक्षेतरन्न भवति तदभिधेयमपि न भवतीति । अपरमपि, यथा 'अदृष्टं कस्यचित् प्रत्यक्षम् , प्रमेयत्वात् करतलामलकवत्' इत्यादिपरःशतानुमानेषु अन्वयव्यतिरेकसाध्यव्यापकत्वसद्भावात् । समपदग्रहणो(णे)ऽपि नातिव्याप्तिनिरासः । तथा च सत्योऽयमाभाणको जातः 'काकोऽपि भक्षितोऽजरामरत्वमपि न जातम्' इति । ततोऽतिव्यापकत्वान्न लक्षणसिद्धिः । अथाव्याप्तिर्दयते---यथा देशान्तरगतो मैत्रपुत्रः श्यामः तत्पुत्रत्वात्, पुरोदृश्यमानान्यपुत्रवदित्यत्र शाकाद्याहारपरिणतिपूर्वकत्वं साध्यश्यामत्वं न व्याप्नोति । यथा यो यः श्यामः स स शाकाद्याहारपरिणामवान् इति नास्ति । इन्द्रनीलादौ श्यामत्वे सत्यपि शाकाद्या[हार]परिणतेरभावात् अव्यापकत्वम् । पूर्व हि सर्वत्र लक्षणे यं त्याज्यमेव अतिव्याप्त्यव्याप्ति च । ते चोमेऽपि अत्र स्तः । ततः कथमिदं लक्षणं हेतोर्व्याप्यत्वासिद्धत्वादिदोषोद्घोषणया अप्रयोजकत्वापादने सामर्थ्य दधातीति चेन्मैवम् । मैत्रपुत्रहेतोः पुरुषधर्मतावलात् पुरुषश्यामत्वमेव पर्यवसितं साध्यम् । तच्चोपाधिना व्याप्तमेवेति चेत् सत्यमुपाधेाप्तिभञ्जकत्वेन व्याप्तौ वक्तव्यत्वात् व्याप्तिर्विचारणीया । सा च-'यो यो मैत्रपुत्रः स श्यामः' इत्येवास्ति । ननु (तु) 'यो यो मैत्रपुत्रः स स पुरुषश्यामः' इति पुरुषविशेषणवैयर्थ्यात् । यतः साच्य

Loading...

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193