________________
साधुविजयनिवद्धम् णिकसुखाववोधाय पूर्वदर्शितानुमान एव दर्श्यते । 'वेदविहिता हिंसा अधर्मसाधनम्, हिसात्वात् ब्राह्मणहिंसावत्' इत्यत्र साध्यव्यापकत्वं यथा यत्राधर्मसाधनत्वं तत्र पक्षेतरत्वम् । पक्षातिरिक्तव्यर्थहिंसादौ सर्वत्र भावात् । यत्र यत्र हिंसात्वं तत्र तत्र पक्षेतरत्वमिति नास्ति पक्ष एव हिंसात्वेन, पक्षातिरिक्तत्वाभावादिति माधनाव्यापकवादतिव्याप्तिः । ____ ननु न पक्षेतरोषाधेः साध्यव्यापकत्वं निश्चितम् । पक्षे साध्यसन्देहेऽपि उपाध्यभावस्य निश्चितत्वेन साध्यं प्रत्यन्वयव्यतिरेकव्याप्त्यभावात् । तथाहि यत् पक्षेतरत् तदधर्मसाधनमिति नास्ति देवपूजनब्राह्मणभोजनादौ पक्षेतरत्वादधर्मसाधकत्वं स्यात् । व्यतिरेकस्त्वेवम्-यत् पक्षेतरन्न भवति तदधर्मसाधनमपि न भवति पक्षातिरिक्तस्यान्यस्याभावात् । पक्षे त्वद्याप्यसिद्धत्वादिति । मैवम् । तथा सति पक्षे साध्यसन्देहेऽपि साधनसद्भावनिश्चयेन हेतोः शङ्कितव्यभिचारित्वं स्यादेव तथा च सर्वानुमानोच्छेदापत्ति. । तर्हि पक्षेतरोपाधिव्युदासाय साध्यसमन्यातिरिति पदं गृहीमः । तथापि तत्रैवातिव्याप्तेः यथा 'शब्दोऽभिधेयः प्रमेयत्वाद् घटवत्' इत्यत्र पक्षे साध्यव्यापकत्वनिश्चयादन्वयव्यतिरेकसम्भवात् । यथा 'यदभिधेयं तत् पक्षेतरत् , यत् पक्षेतरत् तदभिधेयम् । उभयस्य घटादौ सर्वत्र भावात् । यत् पक्षेतरन्न भवति तदभिधेयमपि न भवतीति । अपरमपि, यथा 'अदृष्टं कस्यचित् प्रत्यक्षम् , प्रमेयत्वात् करतलामलकवत्' इत्यादिपरःशतानुमानेषु अन्वयव्यतिरेकसाध्यव्यापकत्वसद्भावात् । समपदग्रहणो(णे)ऽपि नातिव्याप्तिनिरासः । तथा च सत्योऽयमाभाणको जातः 'काकोऽपि भक्षितोऽजरामरत्वमपि न जातम्' इति । ततोऽतिव्यापकत्वान्न लक्षणसिद्धिः ।
अथाव्याप्तिर्दयते---यथा देशान्तरगतो मैत्रपुत्रः श्यामः तत्पुत्रत्वात्, पुरोदृश्यमानान्यपुत्रवदित्यत्र शाकाद्याहारपरिणतिपूर्वकत्वं साध्यश्यामत्वं न व्याप्नोति । यथा यो यः श्यामः स स शाकाद्याहारपरिणामवान् इति नास्ति । इन्द्रनीलादौ श्यामत्वे सत्यपि शाकाद्या[हार]परिणतेरभावात् अव्यापकत्वम् । पूर्व हि सर्वत्र लक्षणे यं त्याज्यमेव अतिव्याप्त्यव्याप्ति च । ते चोमेऽपि अत्र स्तः । ततः कथमिदं लक्षणं हेतोर्व्याप्यत्वासिद्धत्वादिदोषोद्घोषणया अप्रयोजकत्वापादने सामर्थ्य दधातीति चेन्मैवम् । मैत्रपुत्रहेतोः पुरुषधर्मतावलात् पुरुषश्यामत्वमेव पर्यवसितं साध्यम् । तच्चोपाधिना व्याप्तमेवेति चेत् सत्यमुपाधेाप्तिभञ्जकत्वेन व्याप्तौ वक्तव्यत्वात् व्याप्तिर्विचारणीया । सा च-'यो यो मैत्रपुत्रः स श्यामः' इत्येवास्ति । ननु (तु) 'यो यो मैत्रपुत्रः स स पुरुषश्यामः' इति पुरुषविशेषणवैयर्थ्यात् । यतः साच्य