________________
हेतुखण्डन पाण्डित्यम् ।
श्यामत्वशब्देन यत्र साव्यं तत्रोपाधिरित्येव भणनादिति यत्किश्विदेतल्लक्षणमित्युपहसनीयम् ।
प्रत्युपाधेश्च बहुवक्तव्यत्वेन प्राग्दर्शितः । अथ चक्रकान्तेति यदुक्तं तत्र पूर्वमात्माश्रयपातादिदं लक्षणं न प्रीतये प्रीतिस्फीतिमापात्रीभवद्गात्राणां मित्राणामपि । तत्र लक्षणे साध्यव्यापकत्वं हि साध्येन सममनौपाधिकः सम्बन्धः । स चोपाधिज्ञानाधीनज्ञानः । तथा चान्यवधानेन आत्मापेक्षितत्वं स्यात् । तच्च स्वात्मनि अर्थक्रियाविरोधादिप्रबन्धावरुद्धम् । तल्लक्षणाक्षेपोपलक्षित उपाधिः पक्षात् स्वव्यावर्तनोद्वर्तितसाध्यव्यावृत्तिविपक्षीभवत् पक्षे निर्णीत वृतेर्हेतोर्व्यभिचारनिशाचर सञ्चाराविर्भावितानैकान्तिकतादोपकलङ्कलितां कर्तुं कथं साधीयस्तां दधातीति चिन्तनीयम् । तदुत्पादनादेवोपाधेर्दूपणत्वं नेतरथा ।
यदुक्तम्— 'व्यभिचारोन्नयं कुर्वन्' इत्यादि । तथा तत्रैवोपाधिलक्षणे दुरुत्तरे[तरे]तराश्रयापारपारावारप्रोच्छछल्लोलकल्लोलमालाकवलनोज्ज्वलीभवे (व) त्संवर्त्तकहुताशनप्रथमाहुतीभूते कथ नाम दूषणत्वं स्यात् । तथाहि - हेतोः साध्यव्यापकत्वम्, साध्यस्य तेन हेतुना व्याप्तिः, व्याप्तिश्चोपाध्यभाववान् सम्बन्धः, स [ति ] च तस्मिन् प्रतीते उपाधिप्रतीतिः, उपाधिप्रतीतौ च उपाध्यभावप्रतीतिरिति । तथा च कथं [त] दधीनोपाधि' पक्षात् साध्येन सह व्यावर्तमानः स ( सा )ध्यवैपरीत्यसाधनोद्धतेन हेतोर्विरुद्धत्वोन्नायकत्वकल्पनाय कल्पयिष्यते विचक्षणेनापि भवतेत्यपि विचारणीयम् ।
अथोपाधावात्माश्रयेतरेतराश्रयभावनोद्भव विकटकोपाटोपोत्कटकटुकण्टकडङ्कितः पर्याकुलितचेतोवृत्तितया ' प्रमाणाधीना हि प्रमेयव्यवस्था' इति विमृश्य तत्साधनाय प्रमाणं चक्रीयते । तदा क्रियतां नाम किं तत् प्रमाणं विवादपदशन्दित उपाधिरिति व्यवहर्तव्यम् । साधनाव्यापकत्वे सति साध्यसमव्यापकत्वात् । न यद् एवं न तद् एवम् । यथा धूमध्वजाभावे धूमवत्त्वाभावः । एतदपि प्रथीयस्तरं भवन्मनोरथतरुं न पल्लवयति । स्वरूपासिद्धत्वादत्र हेतोः । पूर्वभावितात्माश्रयेतरेतराश्रयपातविस (श) रारुतामापादिते साध्यव्यापकत्वे साध्ये तर्द्ध (द्ध ) र्मत्वाभावात् । अनित्यः शब्दश्चाक्षुषत्वाद् घटवदित्यादिवत् । तथातिवक्रचक्रकाक्रान्तः कथ स्वविक्रममाक्रमिष्यति ? पूर्वोकोपपत्या निरुपाधिकसम्बन्धव्याप्तिसिद्धेः साध्यव्यापकत्वसिद्धिः तत्सिद्धावुपाधिसिद्धिः, तत्सिद्धौ च निरुपाधिकसम्बन्धसिद्धि इत्याद्यावर्तनादिति कियन्तो वा दि ( द ) धिमाषभोजने कृपणा विवेच्यन्ते ।