________________
९७.
हेतुखण्डनपाण्डित्यम् । ___ तथा केवलान्वयिनि केवलव्यतिरेकिण्यपि एकसाध्याविनाभावादिति लक्षणस्याभावात्।
तथा पञ्चरूपोपपन्नेऽप्यन्यहेतौ साध्यस्य निर्णीतव्यापकत्वे विपक्षशङ्कानुदयान्नोपाधिः । यथा धूमवत्त्वसाधनोपपन्ने धूमध्वजसाध्यशतांशेनापि यत्र विपक्षशङ्का न भवति तत्रोपाधिन भवति । तदभावात् प्रत्युपाधिरपि न भवतीति तत्त्वमिति स्थितम् ॥
इति वादिविजयनाम्नि त्रिविधहेतुखण्डने प्रत्युपाधिप्रकाशप्रदीपश्चतुर्थोऽधिकारः ।
५. उपाधिखण्डनाकाङ्क्षाशिक्षा श्रीजिनं हर्षतो नत्वा वीरं विश्वातिशायिनम् ।
उपाधिखण्डनाकाक्षाशिक्षा लेलिख्यते मया ॥ 'इह हि सकलतार्किकचक्रचक्रवर्तिना निजनिस्तमस्तममतिस्फीतिमास्फूर्तिविस्मयास्पदीकृतवाचस्पतिना स्वाभिमततत्त्वसाधनायानुमानमवादि । तदाकर्णनमात्रकर्णोत्पलदलोद्गच्छदतुच्छशूलोन्मीलदुन्मादाविसंवादिवादिना ' प्रतिवादिना उपा-धिरुद्भाव्यते । तेन हेतोः स्वसाध्यव्यापकत्वप्रियामपहृत्य हेतोाप्यत्वासिद्धत्वोत्पादनेनाप्रयोजकत्वमाविश्चक्रे । तदाकर्णनादेव वादिविधीयमानमाद्यत्प्रतिवादिमदमेदुरतापनोदविनोदालोक[नो]त्सुकदिग्देवाझनामन्दानन्दकन्दकन्दलनाम्बुदायमानस्ववाग्विलासाभङ्गसौभाग्यप्रथनाय क्वाप्यश्रुतपूर्वः प्रत्युपाधिः प्रकाश्यते । तेन मूलानुमानहेतोरेव पूर्वोत्पादितोपाधिसाध्यव्याप्तिनिराकरणेन साध्यव्यापे(प)कत्वप्रियां प्रत्याहृत्य स्वसाध्य साम्राज्येऽभिषेक. क्रियते रावणापहृतसीताप्रत्याहारकश्रीरामदेवेनेव विभीषणे । तत् किमुपाधिVषणं न स्यात् , किञ्चोपाधौ दूषणत्वभ्रम एवेति प्रत्याहतो वाद्याह
अतिव्याप्तेरथाव्याप्तेः प्रत्युपाधेश्च सम्भवात् । चक्रकान्तप्रपाताच्च - नोपाधिर्दूषणं पृथक् ॥
अत्र , मदमेदुरतरदुर्द्धरगन्धसिन्धुरशिरःसिन्दूरपूरोदारशेष(ख)रायितनिजानवद्यप्रसृत्वरप्रतापभरैः प्रणिगद्यते । साधनाव्यापकः साध्यव्याप्ति रिति लक्षणं लक्ष्यश्वात्रोपाधिः । न च लक्षणप्रतीतिमन्तरेण लक्ष्यप्रतीतिः । लक्षणं चैतन्निश्चेतुं न शक्यते, पक्षेतरत्वेऽतिव्याप्तिशक्तिप्रकोपपावकाहुतीभूतत्वात् । तच्च प्राथमिकप्रामा- १३ ।