________________
'हेतुखण्डनपाण्डित्यम् ।
९३
तथा च पूर्वोपाधेरप्रयोजकत्वं जातम् । तद्दर्श्यते । तद्व्यतिरेक्यनुमानप्रकाशनपूर्वम् । तद्यथा-वेदविहिता हिंसा धर्मसाधनं भवति, अनिषिद्धत्वात् ब्राह्मणभोजनादिवत् । अत्राहिंसकत्वं प्रत्युपाधिः । एतद्योजना सुखावबोधाय लिख्यते । यथा यत्र यत्र अनिषिद्धत्वं तत्र तत्र अहिंसकत्वमिति नास्ति, वेदविहितहिंसया व्यभिचारात् । यत्र यत्र धर्मसाधनत्वं भवति तत्र तत्र अहिंसकत्वम्, यथा ब्राह्म[ण]भोजनादौ । यत्र यत्र अहिंसकत्वं तत्र तत्र धर्मसाधनत्वं भवति, यथा श्रुतपाठादौ । व्यतिरेकव्याप्तिस्त्वयम् — यत्र अहिंसकत्वं न भवति तत्र धर्मसाधनत्वमपि न भवति, यथा व्यर्थहिंसादौ । अत्राहिंसकत्व प्रत्युपाधिर्व्यावर्तमानो वेदविहितहिंसायां धर्मसाधनत्वं व्यावर्तयति । तथा च सिद्धं पक्षे साध्यापादन हेतु साध्याविनाभावित्वस्थापनेन प्रत्युपाधित्वम् ।
तथा चैवं मूलानुमानमागतम् । यथा वेदविहितहिंसा अधर्मसाधनं हिसात्वात् ब्राह्मणहिंसावदिति तथा चोपाध्याहतप्रमाणानुग्राहकलक्षणप्रत्युपाधिना एकलक्षणत्वेऽपि विरोधिधर्मित्वमुपाधिरिति । अथवा, कुमुदमेदमेदुरोदरप्रतिवाद्युद्भावितोपाधिमहाव्याधिव्याधूतस्तनंघयवादिन' पूर्वोक्तयुक्त्या निर्विलम्बप्रत्युपाध्याविर्भावनाशक्तौ प्रतिवादिदुर्मदापनोदाय निर्विलम्बमेव तदुद्भावनाप्रकारान्तरमाविर्भाव्यते । यथा प्रायो वादिविहितमूलानुमानसाधनवैपरीत्यं साधनाव्यापकसाध्यसमव्यापकलक्षणोपाधिना अन्वयव्यतिरेकाभ्यां व्यभिचारपरिहारपूर्वं मनसि विमृश्य प्रत्युपाधित्वेन भणनीयम् । प्रायो भणनादपरमपि तल्लक्षणं धर्ममुपाधिव्यतिरेकसपक्षे पूर्वोक्तोपपत्त्या सशोध्योपाधिलक्षणयोजनया मनसि सप्रधार्य प्रत्युपाधीकृत्योपाधिर्निराकार्यः ।
एतच्च सोदाहरणं दर्श्यते । यथा कोऽपि जैमिनिमुनिविनेयः कथश्चित् कयाचित् कर्मयोग्यतया सर्वपदार्थेष्वनित्यतां पश्यन् कश्चित् सुपर्वोपा [स] नासादितानन्योपमेयातिशयः सर्वसमर्थप्रत्यर्थिपार्थिवकदर्थनामन्मथप्रत्यर्थीयमानं कमपि महाराजानं प्रसृत्वररजनिकरदिनकरकर निकरजित्वरासख्यगुणज्योतिर्विस रपरास्तदुस्तमतमस्तोमभर यथार्थक्रिया समर्थार्थसार्थमिथ्यावासनावशपटुतरं वाचामगोचरं चिदानन्दाद्वैतरसास्वादसोदरमेकमेवाद्वितीयं ब्रह्म इति वदन् साक्षात् सकललोकालोकप्रकाशगोचरं महा ज्योतिः प्रसरमदीदृशत् । तदनु तद् [ति ] रिक्त चराचरप्रपञ्चसरपरमार्थसत्यता निराचि - कीषुः (र्षुः) स्वाभिमतमतस्थापनायानुमानमिदमवादीत् — "विवादपदं मिथ्या दृश्यत्वात् । यद् यद (द) दृश्यं तत् तन्मिथ्या, यथा शुक्तिशकले कलधौतम् । दृश्यते च विवादपदम् ।