________________
९२
साधुविजयनिवद्धम्
४ प्रत्युपाधिप्रदीपः
श्री जिनं हर्षतो नत्वा वीरं विश्वातिशायिनम् ॥ प्रत्युपाधिप्रदीपाय ताण्डवं दर्श्यते मया ॥
ननु साधनाव्यापकत्वे सति साध्यसमव्यापक उपाधिरिति । लक्षणाभेदे सति उपाधिप्रत्युपाध्योर्भेदेनोपन्यास विन्यासः कथं प्रमाणकोटिमाटीकते ? उच्यते - स्वभावमेदात्, यथा लोके एकोदरसमुत्पन्नयोः पुत्रयोरेकबीजित्वेऽपि स्वभावभेदाद् विरुद्धार्थक्रियाकारिणोर्विरोधत्वेन भिन्नत्वं दृश्यते तथात्रापीति । यद्वा 'अनौपाधिकः सम्वन्धो व्याप्तिः', 'अव्यभिचरितसम्बन्धो व्याप्तिः' एवंविधलक्षणामेदे सत्यप्यर्थक्रियाभेदादन्वयव्यतिरेकाभ्यां व्याप्तिद्वैविध्यमास्ते तथात्रापीति इति चेन्मैवम् । यथा तत्रापि परस्परव्यावर्तकक्रियाकारित्वेन तद्वाचकलक्षणेऽपि भिन्ने युक्तियुक्ते स्तस्तथात्राप्युपाधिप्रत्युपाधिविरोधिस्वभावज्ञापकलक्षणं विना लक्ष्यभेदः कथं भवतीति चिन्त्यमिति चेत् तर्हि तत्रेदं विरोधिस्वभाववाचकं लक्षणं यथा उपाध्याहतानुमानानुग्राहकत्वं प्रत्युपाधिरिति । अनुग्राहकः प्रत्युपाधिरित्युक्ते साकाङ्क्षता स्यात् । तथा वचसो वैयर्थ्यम् । तन्निवृत्त्यर्थमनुमानानुग्राहक इत्युक्तम् । अनुमानानुग्राहकः प्रत्युपाधिरित्युक्ते तर्केण सिद्धसाध्यता स्यात् । तस्यापि प्रसङ्गाहतानुमानस्य अनुग्राहकलक्षणत्वात् । तद्व्यावृत्त्यर्थमाहतेति कृतम् । तथापि साकाङ्क्षत्वम् । तथा च तस्य वैयर्थ्यम् । तन्निवृत्त्यर्थमुपाध्याहतेति पदम् । तथा च सर्वपदसार्थक्यमिति ।
एवंविधप्रत्युपाधेर्दृष्टान्तस्थलमाह । विमता हिंसा पक्षः । तत्र अधर्मसाधनत्वं साध्यम् । हिंसात्वादिति हेतुः । ब्राह्मणहिंसावदिति दृष्टान्तः । अत्र निषिद्धत्वमुपाधिः । योजनाप्रकारश्च पूर्ववदिति ।
उपाध्याहतत्व दर्श्यते । यथा सर्वत्र सोपाधिकानुमानेऽन्वयव्याप्तौ दृष्टान्तप्रभवेनोपाधिना साध्यस्य समाविनाभावित्वम् । हेतुना सहासमाविनाभावित्वविभावनेनावेदितमप्रयोजकत्वं साधनस्य । तथा च व्याप्यत्वासिद्धत्वमुद्भाव्यते । व्यतिरेकव्याप्तौ पक्षाद व्याप्यीभूताधर्मसाधनत्वरूपसाध्यमादाय स्वय व्यापकीभूय व्यावर्तमानेनोपाधिना साध्यात्यन्ताभाववति विपक्षे साधन वृत्तित्वापादनेनानैकान्तिकत्वमाविष्क्रियते । तथा च सिद्धमुपाध्याहतानुमानत्वमिति ।
यथा पक्षाद् व्यावर्तमानेनोपाधिना साध्यमादाय हेतोरप्रयोजकत्वं कृत्वा प्रमाणव्याहतत्वं व्यधायि तथैव तद्व्यतिरेकिप्रमाण सपक्षोद्भूतप्रत्युपाधिना तत्पक्षे पुनः प्रत्याहत्य हेतो. साध्येन सहान्यथानुपपत्तित्वमाघायानुमानानुग्राहकत्वं क्रियते ।