Book Title: Collection Of Jaina Philosophical Tracts
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 118
________________ साधुविजयनिवदम् व्यभिचारशङ्काया जातत्वात् । शङ्का च संशयः । स चाज्ञानमेवेति । तौ समासमावविनाभावौ यदैकत्र स्तः भवतः इति यावत् । एकत्रेति दृष्टान्ते परिदृश्यमानाधर्मसाधनरूपादौ तयोर्मध्ये हीनोऽसमाविनाभावो हिंसात्वादिरप्रयोजको न साभ्यं साधयतीत्यर्थः । असमाविनाभाव इति येन विनापि साध्यमधर्मत्वाद्यवतिष्ठते । अस्ति च हिंसात्वं विनापि सुरापानादावधर्मत्वादि । ततोsसमाविनाभावी अप्रयोजकः । अन्यच्च, उपाधिना व्यभिचारोन्नायकत्वदर्शनतोऽप्रयोजकत्वं समर्थ्यते तथाहि उपा धिरेव साध्यव्यापकीभूतः पक्षाद् व्यावर्त्यमानः पक्षात् साध्यं व्यावर्तयति । ततश्च पक्षे एव साध्यात्यन्ताभाव इति हेतोर्वृत्ते (त्ति) व्यभिचारोन्नायकत्वमिति । यदुक्तम्— व्यभिचारोन्नयं कुर्वन्नुपाधिर्याति दोषताम् । एतदेव च सर्वेषामुपाधीनां परायणम् । यस्य पक्षावृत्तेर्भावाभावौ साध्यभावाभावौ प्रति व्याप्यौ स उपाधिरित्यादी - न्यपि लक्षणान्यत्रैवान्तर्भावनीयानि समानार्थत्वादिति । ९० इति वादिविजयनाम्नि प्रकरणे त्रिविधहेतुखण्डने उपाधिविवेको नाम द्वितीयोऽधिकारः । * * * ३ उपाधिप्रकाशः अथ सपक्षोदारकन्दरोदरसञ्चरत्सहचारिणीविलासलीलालसा (लीलासा) दितप्रमीलामीलितलोचनकमलस्य समर्थप्रत्यर्थिहेतुगर्जद्गजघटारवश्रवणप्रगुणीभवत्कोपप्रकम्प प्रोच्छलदतुच्छहनूमल्लोललाङ्गूलास्फोटप्रकटितोत्कटभृमण्डलाकम्पस्य स उपाधिपश्चाननस्य तत्प्रवोधाक्षेपकाक्षूण (ण्ण) लक्षणस्तत्रातोद्यं वाद्यते । तथाहि - साध्याविनाभावे सपक्षा साधारणधर्मवानुपाधिरभिधीयताम् । सपक्षधर्म उपाधिरित्युक्ते हेतोरेव सपक्षधर्मत्वात् तद्धर्मेणैव सिद्धसाध्यता स्यात् । ब्राह्मणहिंसारूपसपक्षे हिंसारूपधर्मसम्भवात् । तथा चातिप्रसङ्गः । तन्निवृत्त्यर्थं सपक्षासाधारणेति पदम् । सपक्षसाधारणधर्माः प्रमेयत्वसत्त्वादयस्तेषामप्युपाधित्वम् । तन्निवृत्त्यर्थमसाधरणेति कृतम् । सपक्षासाधारणधर्म उपाधिरित्युक्ते प्रमेयत्वसत्त्वादिसाधरणधर्माणां निवृत्त्या पक्षावृत्तीति जातम् । तथापि ब्राह्मणहिंसारूपसपक्षघर्मा' गौरत्व- श्यामत्व- विद्वत्त्व- वक्तृत्व- प्रलम्बत्व- हूस्वत्वाशूद्र भोजित्वादयोऽनेकधर्मास्तेषामप्युपाधित्वप्रसङ्ग । तथा च साघनाव्यापक. साध्य समव्याप्तिक उपाधिरित्युपाधिलक्षणहानि । तद्दयवच्छेदाय साध्याविनाभावे सति इत्युक्तम् । कोsर्थ. ? यो धर्म सन्दिग्धसाध्यवति पक्षे न वर्तते, साध्येन सह प्रमीयमाण

Loading...

Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193