________________
साधुविजयनिवदम्
व्यभिचारशङ्काया जातत्वात् । शङ्का च संशयः । स चाज्ञानमेवेति । तौ समासमावविनाभावौ यदैकत्र स्तः भवतः इति यावत् । एकत्रेति दृष्टान्ते परिदृश्यमानाधर्मसाधनरूपादौ तयोर्मध्ये हीनोऽसमाविनाभावो हिंसात्वादिरप्रयोजको न साभ्यं साधयतीत्यर्थः । असमाविनाभाव इति येन विनापि साध्यमधर्मत्वाद्यवतिष्ठते । अस्ति च हिंसात्वं विनापि सुरापानादावधर्मत्वादि । ततोsसमाविनाभावी अप्रयोजकः । अन्यच्च, उपाधिना व्यभिचारोन्नायकत्वदर्शनतोऽप्रयोजकत्वं समर्थ्यते तथाहि उपा धिरेव साध्यव्यापकीभूतः पक्षाद् व्यावर्त्यमानः पक्षात् साध्यं व्यावर्तयति । ततश्च पक्षे एव साध्यात्यन्ताभाव इति हेतोर्वृत्ते (त्ति) व्यभिचारोन्नायकत्वमिति । यदुक्तम्— व्यभिचारोन्नयं कुर्वन्नुपाधिर्याति दोषताम् । एतदेव च सर्वेषामुपाधीनां परायणम् ।
यस्य पक्षावृत्तेर्भावाभावौ साध्यभावाभावौ प्रति व्याप्यौ स उपाधिरित्यादी - न्यपि लक्षणान्यत्रैवान्तर्भावनीयानि समानार्थत्वादिति ।
९०
इति वादिविजयनाम्नि प्रकरणे त्रिविधहेतुखण्डने उपाधिविवेको नाम
द्वितीयोऽधिकारः ।
*
*
*
३ उपाधिप्रकाशः
अथ सपक्षोदारकन्दरोदरसञ्चरत्सहचारिणीविलासलीलालसा (लीलासा) दितप्रमीलामीलितलोचनकमलस्य समर्थप्रत्यर्थिहेतुगर्जद्गजघटारवश्रवणप्रगुणीभवत्कोपप्रकम्प
प्रोच्छलदतुच्छहनूमल्लोललाङ्गूलास्फोटप्रकटितोत्कटभृमण्डलाकम्पस्य स उपाधिपश्चाननस्य तत्प्रवोधाक्षेपकाक्षूण (ण्ण) लक्षणस्तत्रातोद्यं वाद्यते । तथाहि - साध्याविनाभावे सपक्षा साधारणधर्मवानुपाधिरभिधीयताम् ।
सपक्षधर्म उपाधिरित्युक्ते हेतोरेव सपक्षधर्मत्वात् तद्धर्मेणैव सिद्धसाध्यता स्यात् । ब्राह्मणहिंसारूपसपक्षे हिंसारूपधर्मसम्भवात् । तथा चातिप्रसङ्गः । तन्निवृत्त्यर्थं सपक्षासाधारणेति पदम् । सपक्षसाधारणधर्माः प्रमेयत्वसत्त्वादयस्तेषामप्युपाधित्वम् । तन्निवृत्त्यर्थमसाधरणेति कृतम् । सपक्षासाधारणधर्म उपाधिरित्युक्ते प्रमेयत्वसत्त्वादिसाधरणधर्माणां निवृत्त्या पक्षावृत्तीति जातम् । तथापि ब्राह्मणहिंसारूपसपक्षघर्मा' गौरत्व- श्यामत्व- विद्वत्त्व- वक्तृत्व- प्रलम्बत्व- हूस्वत्वाशूद्र भोजित्वादयोऽनेकधर्मास्तेषामप्युपाधित्वप्रसङ्ग । तथा च साघनाव्यापक. साध्य समव्याप्तिक उपाधिरित्युपाधिलक्षणहानि । तद्दयवच्छेदाय साध्याविनाभावे सति इत्युक्तम् । कोsर्थ. ? यो धर्म सन्दिग्धसाध्यवति पक्षे न वर्तते, साध्येन सह प्रमीयमाण