________________
हेतुखण्डनपाण्डित्यम् । अस्यार्थः । एकेन साध्येन वेदविहिति(त)हिंसादिलक्षणेन(णे) पक्षेऽधर्मत्वरूपेण सहोभयोर्हेतूपाधिभूतयोरविनामावे साहचा(च)र्यभावे सति मिथः परस्परं निषिद्धत्वहिंसात्वयोः सम्बन्धेन व्याप्यव्यापकमावलक्षणेन रहितयोंईयोधर्मयोर्मध्ये यस्य निषिद्धत्वलक्षणस्यात्ययोऽभावः साध्यस्याधर्मत्वस्याभावेनाविनाभावी भवति, स तत्राधर्मत्वलक्षणे साध्ये निषिद्धत्वलक्षण उपाधिरिति तत्त्वम् । एतावता व्यतिरेकन्याति विना नोपाधेर्गमकत्वम् ।
यद्वा स उपाधिरुच्यते । स कः? यस्योपाधेरत्ययोऽभावः साच्याभावेन सहाविनाभावी ) कोऽर्थः ? यत्रोपाच्यभावस्तत्र साध्याभावः । एतावतोपाधिावर्तमानः साध्यमादाय व्यावर्त त] इत्यायातम् । यथा यन्निषिद्धं न भवति तदधर्मसाधनमपि न भवति, यथा देवपूजादि । क सति १ एकसाध्येति । ऐकेन साध्येन विमतहिंसायामधर्मसाधनत्वलक्षणेन सहोभयोहि सात्वहेतु-निषिद्धत्वोपाध्योरविनाभावे सति, यथा 'यत्र यत्राधर्मसाधनत्वं तत्र तत्र निषिद्धत्वं यथा व्यर्थहिंसायाम्। 'यत्र यत्र निषिद्धत्वं तत्र तत्राधर्मसाधनत्वं, यथा सुरापानम्' तथा हेतुनाविनाभावित्वम्, यथा 'यत्र यत्र हिंसात्वं तत्र तत्राधर्मसाधनत्वं यथा ब्राह्मणहिंसायाम् । एवं सति किं रूपयोर्हेतूपाध्योः १ मिथः परस्परं व्याप्यव्यापकमावस्तेन रहितयोः । यथा यत्र यत्र हिंसात्वं तत्र तत्र निषिद्धत्वमिति नास्ति, वेदोक्तहिंसया व्यभिचारादिति । अयं तावदुपाधिर्नान्वयिनि । साध्याभावाविनामावीत्यंशस्यासम्भवात् । नापि व्यतिरेकिणि । साध्यव्यापक इत्यंशस्यासम्भवात् । पक्षे साध्यव्यापकत्वे सिद्धसाधनताप्रसङ्गः । अतोऽयमुपाधिरन्वयव्यतिरेकिण्येव सम्भवति । सौंपाधित्वेन हेतोरप्रयोजकत्वं वदन्ति । तदाह- ।
समासमाविनाभावावेकत्र स्तों यदा तदा ।
समेन यदि नो व्याप्तस्तयोहीनोऽप्रयोजकः ॥
अस्यायमर्थः । समश्चासमश्च समासमौ, समासमावविनाभावौ ययोस्तौ समासमाविनाभावौ । एकस्य समोऽविनाभावोऽन्यस्यासमः । साध्येनाधर्मत्वादिना समत्वं च 'यत्र यत्र साध्यमधर्मत्वादि तत्र तत्र निषिद्धत्वादि, यत्र यत्रं निषिद्धत्वादि तत्र तत्राधर्मत्वादि' इति समाविनाभावं निषिद्धत्वादि । असमत्वं च 'यत्र हिंसादित्वादि तत्राधर्मसाधनत्वादि, यत्राधर्मसाधनत्वादि न तत्र नियमेन हिंसात्वादि । हिंसात्वादिकमन्तरेणापि सुरापानादावधर्मस्य दर्शनात् । अविनाभविश्च प्रमीयमाणन्यभिचारीभावः । न हि हिंसात्वमविनाभूतमधर्मत्वेन, अनौपाधिकसम्बन्धस्याविनाभावस्य हिंसात्वहेतावभावान्निषिद्धत्वस्यैकोपाधित्वात् । व्यभिचाराज्ञानं च नास्ति, उपाधिदर्शनेन