________________
८८
साधुविजयनिबद्धम् सम्भवाच्च शब्देतरत्वमुपाधिः स्यात् । तन्निरासार्थं समपदम् । एवममुना प्रकारेण सर्वपदसार्थक्यं ज्ञातव्यम् ।
एवंविधस्योपाधेदृष्टान्तस्थलमाह । 'विमता हिंसा अधर्मसाधनं हिंसात्वाद् ब्राह्मणहिंसावत्' इत्यत्र निषिद्धत्वमुपाधिः । योजनाप्रकारश्चायम् । यत्र यत्राधर्मसाधनत्वं तत्र तत्र निषिद्धत्वं यथा व्यर्थहिंसायाम् । यत्र यत्र निषिद्धत्वं तत्र तत्राधर्मसाधनत्वम् यथा सुरापानम् । यत्र यत्र हिंसात्वं तत्र तत्र निषिद्धत्वमिति नियमो नास्ति, वेदविहितहिंसायां व्यभिचारात् । यदा समव्याप्तिरुपाधिरिति मन्यते तदोपाधेः साध्यं प्रति व्याप्यत्वं व्यापकत्वं च सम्भवति । यदुक्तम्
व्याप्य-व्यापकभावो हि भावयोर्यादगिष्यते ।
तयोरभावयोस्तस्माद् विपरीतः प्रतीयते ॥ व्याख्या- अन्वये साध्योपाध्योर्भावरूपयोाप्यव्यापकभावो यादृगिण्यते तयोः साध्योपाध्योरभावरूपयोस्तस्माद् व्याप्यव्यापकभावाद् व्याप्यव्यापकभावो विपरीतो ज्ञेयः । अन्वये साध्यं प्रत्युपाधेापकत्वात् । साध्यस्य व्याप्यत्वादिति तत्त्वम् । तदुक्तम् --
यो यस्य देशकालाभ्यां समो न्यूनोऽपि वा भवेत् । स व्याप्यो व्यापकस्तु स्यात् समो वाप्यधिकोपि वा ॥ [लो० वा० अनुमान ५] ___श्लोकार्थः यस्य येन साकं देशतः कालतो वा न्यूनवृत्तित्वं तस्य व्याप्यसज्ञैव, अधिकवृत्ति(त्ते)स्तु व्यापकस व, समवृत्तेस्तु व्याप्यसंज्ञा व्यापकसंज्ञा वेति । तत्र
व्याप्यं तु गमक प्रोक्तं व्यापक गम्यमुच्यते । विपरीते प्रतोयेते त एव तदभावयोः ॥
व्याप्यं साधनं गमकम्, व्यापकं साध्यं गम्यम्, गमयति ज्ञापयतीति व्य(व्युत्पत्त्या गमकं साधनं हेतुर्वेति भण्यते, गम्यते ज्ञाप्यते इति व्युत्पत्त्या गम्यं साध्यमुच्यते, व्यतिरेकव्याप्तौ च गम्यगमकभावो विपरीत इति व्यतिरेके साध्यं हेतुरूपं हेतुः साध्यरूप इत्यर्थः । अयं तावदुपाधिरन्वयव्यतिरेकिण्येव, न केवलान्वयिनि नापि केवलव्यतिरेकिणि । तदुक्तमुदयनाचार्यैः
एकसाच्याविनाभावे मिथः सम्बन्धशून्ययो. । साध्याभावाविनाभावी स उपाधिर्यदत्ययः ॥