________________
हेतुखण्डनपाण्डित्यम् । ___ दयते, यथा 'यत् सशरीरजन्यं न भवति तद् बुद्धिमत्कर्तृकमपि न भवति यथा व्योम' । एतस्य प्रतिपक्षानुमानं यथा 'भू-भूधरादिकं बुद्धिमत्कर्तृकं न भवति, सशरीराजन्यत्वात् , व्योमादिवत्' इति प्रकरणसमत्वम् ।।
___ व्याघातश्च प्राग्दर्शितः । अथेतरेतराश्रयो दयते, यथा तस्य माहात्म्यविशेषाददृश्यशरीरत्वे इतरेतराश्रयः, पिशाचादिवच्चादृश्यशरीरत्वेन तु सशयः, एवं च मूलानुमानदोषभावना स्वयमेव कार्या । प्रकृतत्वादेवैवं मनाग् दर्शितं ज्ञेयमिति स्थितम् ।
इति वादिविजयनाम्नि प्रकरणे त्रिविधहेतुखण्डनाधिकारः प्रथमः ।
* *
२. उपाधिविवेकः ननु हेतुखण्डनप्रथमाधिकारे सोपाधित्वेन हेतोरप्रयोजकत्वमवादि वादिवृन्दारकपुरन्दरैः । तत्रेदं परीपृच्छयते । उपाधेः किं रूपम् , किं च तस्य लक्षणमिति ? प्रत्याहतः प्रतिवाद्याह । “अन्यत्रगतो धर्मोऽन्यत्रोपचर्यमाण उपाधिरभिधीयते । यथा जपाकुसुमससर्गादारुण्यशून्ये स्फटिकोपलेऽरुणत्वं प्रतीयते तथोपाधौ वर्तमानं व्याप्यत्वं व्याप्यत्वाभाववति हेतौ प्रतीयते । इति व्याप्तिदूरीकरणेनोपाधेर्दूषणत्वम् । तस्योपाधेरिदं लक्षणम्-'साधनाव्यापकत्वे सति साध्यसमव्याप्तिरुपाधि' । सुखावबोधार्थमिदं लक्षणं व्यवच्छिद्यते । उपाधिशब्देन लक्ष्यनिर्देशः । इतरेण च लक्षणनिर्देशः ।
साधनाव्यापक उपाधिरित्युक्ते 'अनित्यः शब्दः कृतकत्वाद् घटवत्' इत्यत्रानुमाने 'यत्र यत्र कृतकं(तकत्वं) तत्र तत्र द्रव्यत्वं नास्ति गुणादौ व्यभिचारात्' इति साधनाव्यापकत्वेन द्रव्यत्वमुपाधिः स्यात् । तन्निरासार्थ साध्यव्याप्तिपदम् ।
साध्यव्याप्तिरित्युक्ते 'अनित्यः शब्दः कृतकत्वाद् घटवत्' इत्यत्रानुमाने 'यत्रानित्यत्वं तत्र प्रमेयत्वम्' इति व्याप्तिसम्भवेन प्रमेयत्वमुपाधिः स्यात् । तन्निरासार्थ साधनाव्यापकपदम् ।
साधनाव्यापकः साध्यव्यापक उपाधिरित्युक्ते 'अनित्यः शब्दः कृतकत्वात् घटवत्' इत्यत्रानुमाने 'यत्र यत्रानित्यत्वं तत्र तत्र शब्देतरत्वम्' इति साध्यव्याप्तिसम्भवेन 'यत्र कृतकत्वं तत्र शब्देतरत्वमिति नास्ति, पक्षेण व्यभिचारात्' इति साधनाव्यापकत्व