________________
साधुविजयनिवद्धम् निराकृतम् । तथा च नानैकान्तिकत्वमिति । एव च प्रमेयत्वसत्त्वहेत्वोाप्यारोपे कृते व्यापकारोपाभावादनक्रान्तिकत्वं समर्थनीयमिति ।
अन्यच्च, वक्रच्छायानुमानसाध्येपु साध्य वर्तते न वा ? । वर्तते चेत् तर्हि व्याधातो, घटे घटवदिति । न वर्तते चेत् तर्हि पक्षस्य प्रत्यक्षबाधितत्वम् । तथा च कालात्ययापदिष्टत्वमजनिष्ट ।
अन्यच्च, साध्ये साध्याभावात् पक्षस्य विपक्षीभूतत्वेन हेतोस्तत्र वर्तनादनैक्रान्तिकादयो दोषा उद्भावनीया. । एवं च वक्रच्छायानुमानहेतवो निगकरणीयाः सहृदये. । अत्र प्रकृतत्वान्मूलानुमानहेतुखण्डनकौतुकं दर्श्यते । यथा, अत्र प्रमाणेन पूर्वकोट्यनुपलब्धेरसिद्धः । यथा पूर्वकोटिशब्देना दरुच्यते; यत् किल कार्य घटादिः, तस्यादि. प्रमाणेनोपलभ्यते न तु भू-भूधरादीनामादिरुपलम्यते; अतस्तेषु कार्यत्वानुलब्धेरसिद्धत्वम् ।
अन्यच्च-प्रसङ्गप्रसञ्जितव्याधाताभावविहितव्याप्यवासिद्धत्वं दर्श्यते । यथा अन्वयामिमतव्यापकभावे व्याप्यारोपे परेण प्रसञ्जिते इदानीमप्युत्पद्यमानतस्तृणविद्युदभ्रादिभिर्व्यभिचारात् प्रमाणानुग्राहकतर्कासम्भवस्ततश्च व्याघातस्योद्रटत्वाभावेन साध्याभावे व्याप्यारोपस्य सत्यत्वापादनतोऽपि व्याप्यत्वासिद्धत्वं हेतोः, तथा बुद्धिमत्पूर्वकत्वं साध्यो धर्मः, तद्विगंपोऽशरीरवत्त्वं वक्तुरभिप्रेतम्, तद्विरुद्धं सशरीरत्वं व्याप्तिवलेन साध्यते, अत. कारणादशरीरपूर्वकत्वानुमाने कार्यत्वादित्ययं हेतुरभिमतविशेषव्यावृत्त्या स्वपक्षस्यैव विपक्षभवनात् तत्र च वर्तनाद् विरुद्ध । यद्वा प्रसङ्गेन साध्याभावे साधनस्य सद्भावव्यञ्जनेनापि विरुद्धत्वं साधनीयमिति ।
मन्यच्च, 'यद् यत् कार्य तत् तत् बुद्धिमत्कर्तृकम्' इत्यत्र पूर्वदर्शितव्यभिचारेणानैकान्तिकत्वम् ।
तथा व्याप्तिग्राहकेण घटादौ शरीरिण एव कर्तुर्दर्शनात् , प्रमाणवाधितेऽशरीरकर्तृकत्वलक्षणेऽर्थे प्रवर्तमानो हेतु. कालात्ययापदिष्ट' ।
तथान्चयवलेन दृष्टान्तदृष्टकर्तृसदृशः कर्ता सिद्धयति । नात्र तथा, तेन दृष्टान्तदाान्तिकयोवैषम्यम् ।
तथाऽप्रयोजकश्चायं हेतु. सशरीरजन्यत्वोपाधेः । तद्भावना चेहैवोपदर्यमानोपाधिविवेकाद ज्ञेया । यत्रोपाधिस्तत्रासिद्धविरुद्धानकान्तिकसत्प्रतिपक्षादिदोपभावनाप्रकार प्रत्युपाधिप्रान्ते दर्शितस्ततो ज्ञेयः । प्रकरणसमदर्शनार्थं तद्व्यतिरेको